________________
संग्रहणिः .
| यत एवं तस्मादिदं जिनवचनादुद्धस मया वक्ष्यमाणं 'रोचयितव्यं रुचिविषयीकर्तव्यं, सकलस्याप्यनुष्ठानस्य रुचितस्यैव खफलसिद्धिनिवन्धनत्वात् , तथा 'भावयितव्यं' पूर्वापरावयवावपरीत्यपर्यालोचनेनाऽऽत्मसात्कर्तव्यं, तत्त्वाभिनिवेशमूलत्वादुत्तरोत्तरविशिष्टक्रियाप्रवृत्तेः, तथा परेभ्यः प्रकाशयितव्यं च, परप्रतिबोधकरणस्य परमनिर्जराकारणत्वात् , 'अव्याक्षिप्तेन' व्याक्षेपविरहितेन सता, व्याक्षेपाकुलस्य सम्यग्रोचनाद्यनुपपत्तेः, सम्यग्रोचनादेरवश्यकर्त्तव्यतायां हेतुमाह- 'दुक्खक्खयमिच्छमाणेणं' दुःखक्षयमिच्छता, सम्यग्रोचनादिव्यतिरेकेण सकलसांसारिकदुःखक्षयायोगात् ॥ १८ ॥ एवं च सति किमित्याह
सफलो मे तो एवं आरंभो रोयणाइजोगातो।
तत्थऽप्पणो परस्स य णियमातो कयं पसंगेणं ॥ १९ ॥ यतोऽनन्तरोक्तप्रकारेण वक्ष्यमाणमवश्यं रुच्यादिविषयीकर्तव्यमतो 'मे' ममास्य प्रकरणस्यारम्भः 'एवम्' उक्तनीत्या सफलः । कुत इत्याह-'तत्र' आरभ्यमाणे प्रकरणे 'नियमाद्' अवश्यंतया आत्मनः परस्य च 'रोचनादियोगात्' रोचनाभावनादिभावात् । इह खस्य रोचनाद्ययोगे कथयितुरङ्गारमईकस्येव विवक्षितफलानुपपत्तिः, कर्मदोषेण पुनः कदाचित् परेषां रोचनाद्यभावेऽप्यात्मनो रोचनादिभावतो विशिष्टफलावाप्तिनं व्याहन्यत इत्यात्मन इत्युपादायि,
॥१६॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org