SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter माच, निर्विकल्पकदर्शनस्य चैकीकरणाध्यवसायासंभवात्, अन्यथा विकल्परूपताप्रसङ्गादित्यलं दुर्मतिविस्पन्दितेषु तदेवं वाच्यवाचकभाव संबन्धेन यथास्थितशेषज्ञेयप्रतिबद्धं जिनवचनमिति स्थितम् । पुनरप्येतदेव विशेषयति'नानानयौघगहनं' नाना - अनेकप्रकारा नया-नैगमादयस्तेषामोघः - सङ्घातस्तेन गहनं - गुपिलम् । इत्थं जिनवचनं त्रिभुवनेऽपि प्रसिद्धं त्रिभुवनप्रसिद्धं, प्रसिद्धिग्रहणेन चैतदाह — त्रिभुवनप्रसिद्ध्यैवास्य जिनवचनस्य एवंविधगुणोपेतत्वं सिद्धमिति किमन्यतत्साधकप्रमाणोपन्यासेन ?, निष्फलत्वादिति ॥ १६ ॥ पुनरप्यस्यैवातिशयविशेषमाह - एस एगदेसोऽवि भावओ भवजणपरिग्गहिओ । अत्थsasवितणातो दुक्खक्खयकारणं होइ ॥ १७ ॥ 'एतस्य' जिनवचनस्य, एकदेशोऽपि, आस्तां समस्तं जिनवचनमित्यपिशब्दार्थः, 'भावतो' बहुमानतो, भव्यजनेन सूत्रतोऽर्थतश्च परिगृहीतः, तथाविधशत्तयभावेन तु सूत्रतोऽपरिग्रहेऽपि अर्थोऽपि केवलः 'अवितथज्ञातः' अवैपरीत्येनावबुद्धः सन् दुःखक्षयकारणं भव्यजनस्य भवति, जिनवचनस्याचिन्त्यशक्तिसमन्वितत्वात् ॥ १७॥ ततः किमित्याहतम्हा एवं भावेयवं पगासियां च । अवखित्तेणेदं दुक्खक्खयमिच्छमाणेणं ॥ १८ ॥ For Private & Personal Use Only ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy