SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Jain Education In ग्रहणेन च एतद्दर्शयति- एवंविधेष्यतीन्द्रियेषु प्रायो जिनवचनमेव प्रमाणतया विजृम्भते नान्यदिति । तथा 'लोकादिप्रसिद्धितः' लोकादी अमूर्त्तत्वेन प्रसिद्धेः । आदिशब्दाद्वेदतच्छेषसमयपरिग्रहः, अत्र कर्मविनिर्मुक्तस्वरूपग्रहणं संसारिजीवप्रतिषेधार्थ, तस्य हि वययस्पिण्डवत् कर्म्मणा सह लोलीभूततया कथञ्चिन्मूर्त्तत्वेनाभ्युपगमात् वक्ष्यति - 'अहवा गतोऽयं संसारी सबहा अमुत्तोति । जमणाइकम्मसंतइपरिणामावन्नरूवो सो' इति । | यद्वा सामान्येन तत्खरूपविशेषनिर्द्धारणार्थमतो न कश्चिद्दोषः ॥ १९३ || (इति) अमूर्त्तत्वसिद्धिः । व्याख्यातं द्वारगाथोपन्यस्तममूर्त्त इति द्वारम् ॥ अधुना परिणामीति व्याख्यानयन्नाह परिणामी खलु जीवो सुहादिजोगातो होइ यो । गंतणिञ्चपक्खे अणिच्च पक्खे य सो जुत्तो ॥ १९४ ॥ खलुशब्द एवकारार्थः, परिणाम्येव जीवो भवति ज्ञातव्य इति साध्यनिर्देशः, सुखादियोगादिति हेतुः, अयं हि जीवः कदाचिदिष्टसंप्रयोगादिना सुखीभवति स एव पश्चादिष्ट वियोगानिष्टसंप्रयोगादिना दुःखीभवति, न चैकस्य तथातथापरिणमनमन्तरेणायं सुखादियोग उपपद्यते, ततः सुखादियोगान्यथाऽनुपपत्त्या परिणामी जीवो ज्ञातव्यः स्यादेतत्-सुखादियोगोऽपि स्यान्न च परिणामी, को यत्र प्रतिबन्धो ? येन परिणामित्व एव सुखादियोग For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy