SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ धर्म-18 ॥९५॥ कर्माणि-ज्ञानावरणीयादीनि वक्ष्यमाणखरूपाणि तैर्विनिर्मुक्तं-विशेषेण सर्वापगमरूपेण निर्मुक्तं परित्यक्तं रूपं- संग्रहणिः . स्वरूपं यस्य स जीवोऽमूर्तो ज्ञातव्य इति साध्यनिर्देशः,अत्र साधनमाह-'अणिदियत्ता' अतीन्द्रियत्वात् ,मूत हि यत् भवति तत्कदाचनाप्यवश्यमिन्द्रियग्राह्यमपि भवति, यथा घटपरमाणवो घटावस्थायाम् , न चासौ जीवः कर्मविनिमुक्तखरूपः कदाचनापि चक्षुरादीन्द्रियग्राह्यो भवति, तस्मादयमतीन्द्रियत्वात् अमूर्तः । एवं शेषहेतुष्वपि यथायोगं भावना कार्या। तथा 'अछेजभेजत्ति' खड्गशूलादिना अच्छेद्याभेद्यत्वात् , 'रूवादिविरहतो बेति' रूपाद्याकारविशेषो हि मूर्तिः, अयं च जीवो रूपादिगुणविकलस्तस्मादयममूर्तः, रूपादिगुणविरहोऽपि तस्य कुतः सिद्ध इति चेत् ,उच्यते 'अनादिपरिणामभावात' आकाशस्येवानादिरूपादिगुणविरहलक्षणपरिणामभावात्॥१९२॥अमूर्त्तत्व एव साध्ये हेतूनाह छउमत्थाणुवलंभा तहेव सवन्नुवयणओ पायं ।। लोगादिपसिद्धीतोऽमुत्तो जीवोत्ति णेयवो ॥ १९३ ॥ 'छद्मस्थानामनुपलम्भात्' न खवधिज्ञानिप्रभृतिभिरपि छमस्थैः स साक्षादुपलभ्यत इति । तहेव सवण्णुवयणओ पायं तथैव सर्वज्ञवचनतः-निर्मूलापगतसकलरागादिदोषजालभगवत्सर्ववेदिवचनतः प्रायः सोऽमूर्तोऽवगम्यते, प्रायो। MARACCORadio Jain Education Inte For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy