________________
नात् , तच्चेदं-अमओ य होइ जीवो कारणविरहा जहेव आगासं। समयं च होअणिचं मिम्मयघडतंतुपडमाई॥१॥ अस्यायमर्थः-अमयश्च भवति जीवः न किम्मयो भवतीत्यर्थः, न केनापि कृत इतियावत् । कुत इत्याह-कारणविरहात्-अकारणत्वात् , किंवदित्याह-यथैवाकाशम् , आकाशवदित्यर्थः । 'समयं च' सहेतुकं च हेतोर्मयविधानमधिकृत्योभयत्राप्येवं निर्देशः, भवति अनित्यम् । किमिवेत्यत आह-मृन्मयघटतन्तुमयेपटादि यथा मृन्मयो घटः, तन्तुमयः पटः । अधिकृत एव कारणविरहे हेत्वन्तरमाह-'भणितदोपसद्भावात्' जीवानां सकारणत्वाभ्युपगमे ये पूर्व दोषा भणितास्तेषां सद्भावात्-सद्भावप्रसङ्गात् कारणविरहः सिद्धः । उपसंहरति-'तम्हा' इत्यादि, तस्मात्सिद्धमिदं सर्वेऽपि जीवा अनादिनिधना इति । ननु च कारणविरहादनादित्वमेव सिध्यति न त्वनिधनत्वमपि, तत्कथमुच्यते -सिद्धमिदमनादिनिधना इति ?, तदयुक्तम् , अनादित्वसिद्धावनिधनत्वस्य खयमेव सिद्धत्वात् , सतः सर्वथा विनाशायोगात् , आकाशवदू, इति जीवानामनादिनिधनत्वसिद्धिः ॥१९॥ समर्थितं जीवानामनादिनिधनत्वम् ॥ साम्प्रतममूर्त्तत्वं सिसाधयिपुरिदमाह
कम्मविमुक्कसरूवो अणिंदियत्ता अछेजभेजो उ। रूवादिविरहतो वा अणादिपरिणामभावातो ॥ १९२ ॥
RECORRECOSCAROORKSEXX
Jain Education in
For Private & Personel Use Only
Twww.jainelibrary.org