________________
धर्म
॥ ९४ ॥
Jain Education
seतो वा जीवान्निष्पादयतीति वक्तव्यम्, तत्र सत्पक्षे तस्य वैफल्यं, अग्रत एव तेषां निष्पन्नत्वात्, असत्पक्षेऽपि च | खरविषाणस्येवाकरणमिति, तन्नाजीवोऽपि जीवानां कर्त्तोपपद्यते इति स्थितम् ॥ १८९ ॥ अथ मा भूत् जीवोऽजीवो वा कर्त्ता, जीवाजीवबिभिन्नं तु वस्त्वन्तरं जगन्निर्मापणसमर्थ भविष्यतीत्यारेका निराकरणार्थमाह
जीवाजी विभिन्नं ण अस्थि वत्थंतरंति जप्पभवा ।
होज इमे खलु जीवा ण कत्तिवादो ततो जुत्तो ॥ १९० ॥
यतः प्रभवः- उत्पत्तिर्येषां ते यत्प्रभवाः, खल्विमे जीवा भवेयुस्तत् जीवाजीवविभिन्नं वस्त्वन्तरं नैवास्ति, सर्वस्यापि वस्तुनो जीवाजीवलक्षणद्वैराश्य एवान्तर्भावात् । इति वाक्यपरिसमाप्तौ । ततस्तस्मात् जीवानां 'कर्तृवादः' कर्त्ता कश्चिदस्तीत्येवं जल्पो न युक्तः ॥ १९०॥ कुतः ? इति हेतुमाह
कारणविरहा परमरिसिवयणतो भणितदोससब्भावा । तम्हा अणादिणिहणा जीवा सवेऽवि सिद्धमिणं ॥ १९९ ॥
'कारणविरहात्' आकाशस्येव कारणाभावात् सोऽपि कुतः सिद्ध इति चेत् उच्यते- 'परमर्षिवचनात् ' परममुनिवच
For Private & Personal Use Only
संग्रहणिः,
॥ ९४ ॥
wwwww.jainelibrary.org