________________
त्वाभ्युपगमस्तथाप्यत्र पूर्वोक्ता दोषा अपरिहार्या एव,तथाहि-सोऽजीवो जगन्निर्मापणसमर्थः कृत्रिमो वा स्यादकृत्रिमो वा?. यदि कृत्रिमस्ततः सोऽप्यन्येन कर्त्तव्यः,अन्यथा कृत्रिमत्वायोगात्, सोऽप्यन्येनेत्येवमनवस्था। अथाकृत्रिमस्तर्हि जीवैः किमपराद्धं ?, येनाकृत्रिमास्ते नेष्यन्ते। अपिच-यद्यसावकृत्रिमस्ततस्तन्निष्पाद्याः सत्त्वा अपि च य(तत्सत्ताभवनतुल्यकालत्वादनादय एव प्राप्ता इति सिद्धं नः समीहितम् , तस्य हि सत्ता अनादिमती ततस्तनिष्पाद्याः सत्त्वा अपि अनादय एव, अन्यथा सोऽपि कृत्रिमः स्यात् ,तथा च सति प्राग्वदनवस्थाऽनुपङ्गः,अथोच्येत-नैवासौ खसत्ताभवनकालं जीवानामुत्पादकः किंत्वनन्तायामद्धायामतीतायां सत्याम् , तथा च कुतो जीवानामनादितेति, तदयुक्तम् , एवं सति तस्यानित्यत्वप्रसक्तेः, अनुत्पादकत्वलक्षणपूर्वखभावप्रच्युत्योत्पादकत्वलक्षणखभावान्तरस्योत्पादात् , खभावस्य च खभाविनोऽनर्थान्तरत्वात् , अन्यथा खभावभेदाभावेन पूर्वकालमिव पश्चादपि तस्यानुत्पादकत्वप्रसङ्गः। स्यादेतत्-तस्य तथाविध एवैकः खभावो येनापरिमिताद्धायामतीतायां सत्यां जीवान् उत्पादयति नान्यदा, तथा च सति तस्य स्वभावभेदेनापि (न)जीवानामनादितेति,एतदप्ययुक्तम् ,विकल्पायोगात् , तथाहि-तस्यापरिमितायामद्धायामतीतायां सत्यां स खभावो निवर्तते न वेति विकल्पद्वयम् , तत्र यदि निवर्तत इति पक्षस्तर्हि तस्यानित्यत्वप्रसङ्गः, अतादवस्थ्यस्यानित्यत्वलक्षणात्, अथ न निवर्त्तत इति पक्षस्ततस्तदाऽपि तस्य खभावस्य तदवस्थत्वात् पुनरपि तेनापरिमिताद्धाऽतिक्रमणीया,तदापि च स एव तस्य खभाव इति सर्वदाप्यकरणप्रसङ्गः। किं च-असौ सतो
Jain Education in
For Private & Personel Use Only
Wioww.jainelibrary.org