________________
संग्रहणिः
॥९३॥
विद्यमानत्वात् , विद्यमानस्य च करणाभ्युपगमेऽनवस्थाप्रसङ्गात् , 'चरमे उ न संगयं करणंति' चरमे पुनः न संगतं तेषां जीवानां करणं-निष्पादनम् , अत्यन्तासत्त्वेन खरविषाणस्येव कर्तुमशक्यत्वात् ॥ तदेवं यदभिहितं प्राक् 'वत्तवं जेण कओ सो किं जीवो अजीवो वेति पक्षद्वयम् , तत्र जीवपक्षं सप्रपञ्च निराकृत्याजीवपक्षं निराचिकीर्षुरिदमाह
अज्जीवो तु ण कत्ताऽभिप्पायाभावतो घडादिव ।
अन्नेसिं सत्ताणं दोसा एत्थंपि पुत्रुत्ता ॥ १८९ ॥ अजीवो 'न तु' नैव जीवानां कर्ता भवति, कुत इत्याह-अभिप्रायाभावात् , न हि अजीवस्याभिप्रायः संभवति, तस्य चेतनधर्मत्वात् , न चाभिप्रायमन्तरेण देवनारकादिभेदेन ईश्वरादिभेदेन च नियतव्यवस्था जीवा उत्पादयितुं शक्यन्ते इति, दृष्टान्तमाह-घटादिवत्, स्यादेतत्-शालिबीजादीन्यभिप्रायविकलान्यपि नियतशक्त्युपेततया नियतखखकार्यकारीण्युपलभ्यन्ते, तद्वदयमप्यजीवस्तथाविधनियतशक्त्युपेततया देवनारकादिभेदेन ईश्वरादिभेदेन च नियतव्यवस्थान सत्त्वान् उत्पादयिष्यतीति को दोष इत्यत आह–'दोसा एत्थंपि पुबुत्ता' अत्रापि अजीवपक्षेऽपि दोषाः पूर्वोक्ता द्रष्टव्याः, इदमुक्तं भवति-यद्यभिप्रायशून्यस्यापि तस्य नियतशक्त्युपेततया नियतकार्यकारि
SASCACARAMACHCROCOCOM
२३॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org