________________
पपत्तेजेश्वरादिभेदेन चित्रान् सत्त्वान् कर्तुमुचितमिति स्थितम् ॥ १८६ ॥ साम्प्रतं येन प्रकारेण एतद्देषितं तं । प्रकारमभिव्यक्तीकुर्वन्नाह
तस्स अणादित्तं तह अन्नेसिं वाऽऽदिमत्तमहिकिञ्च ।
भणियमिणं ण तु सिद्धं तस्सेवाणादिमत्तं तु ॥ १८७॥ 'तस्य' परपरिकल्पितत्य परमात्मनोऽनादित्वमन्येषां च शेषजीवानामादिमत्त्वमधिकृत्य-अभ्युपगम्य 'इदम्'अनन्तरोक्तं जो सो अकित्तिमोरागाइजुत्तो हवेज इयरो वेत्यादिना' प्रपञ्चेन भणितं,यावता पुनस्तस्यैव परमात्मनोऽनादित्वमस्माकं 'न तु' नैव सिद्धं, तत्सत्ताया एवासिद्धत्वात् , तत्साधकप्रमाणाभावात् ॥१८७॥ दूषणान्तरमप्यभ्युच्चेतुमाह
तह संतेऽसते वा कुणति तओ ते तु पढमपक्खम्मि।
किं तस्स कारकत्तं? चरमे तु ण संगयं करणं ॥ १८८ ॥ 'तथेति दूषणान्तरसमुच्चये 'तओत्ति' सकः परपरिकल्पित आत्मा (परमात्मा) तान् जीवान् करोति किं सतोड४सतो वेति पक्षद्वयम् तत्र 'पढमपक्खे(क्खंमि)त्ति'प्रथमपक्षे किं 'तस्य' परमात्मनः कारकत्वं नैव किञ्चन,तेपामग्रेऽपि
Jain Education
a
l
For Private & Personel Use Only
S
ww.jainelibrary.org