________________
धर्म
संग्रहणिः
॥१२॥
मत्वाविशेषेऽपि शेषजीवा एव कर्मणा संभन्स्यन्ते न तु परमात्मेति' तदयुक्तमवगन्तव्यम् , दृष्टान्तदान्तिकयोषम्यात् । एतदेवोपसंहरति-वेहम्मं तेण दोण्हंपित्ति' येन कारणेन संयोगस्य तथाविधपरुषत्वलक्षणो विशेषहेतुरुभयत्राप्यविशेषेण न विद्यते कर्मवन्धस्य च रागादिपरिणतिलक्षणो विशेषहेतुरुभयोरप्यस्ति तेन कारणेन द्वयोरपि-दृष्टान्तदान्तिकयोवैषम्य (धर्म्य)मिति स्थितम् । स्यादेतत्-याशा रागादयः शेषजीवानां न तादृशाः परमात्मनः, तत्कथमुच्यते ?-रागादिमत्त्वाविशेषादुभयोरप्यविशेपेण बन्धः प्राप्नोति,' रागादिमत्त्वाविशेषस्यैवाभावात् ॥१८५॥ अत आह
तब्भावो अविसिट्टो जदि णो थेवतरदोससब्भावो।
पावेति तस्स अहवा रागादीणं अभावो तु॥ १८६ ॥ | यदि तस्य परमात्मनस्तद्भायो-रागादिपरिणतिभावोऽविशिष्टो नाभ्युपगम्यते तर्हि सामर्थ्यात् स्तोकतररागादिसद्भावः प्राप्नोति,तथा च सति तदनुसारी कर्मबन्धोऽपि, ततश्चैवमपि शेषजीवस्तुल्य एव। 'अहवा रागाईणं अभावो उत्ति' अथवेति प्रकारान्तरेण दूपणान्तरसूचने, यदि पुनः कर्मवन्धप्रसङ्गात् स्तोकतरोऽपि रागादिदोषसद्भावो नेष्यते तर्हि सर्वथा तस्य रागादीनामभाव एवाभ्युपगतः स्यात् , तथा च सति तस्य वीतरागतया क्रीडाया अनु
॥९२॥
Jin Education
For Private Personel Use Only
w.jainelibrary.org