________________
Jain Education In
न्यसामग्रीविशेषपरिग्रहश्च, विषं हि उपभुज्यमानं सोपक्रमायुष्कमगदादिना वाऽप्रतिहतशक्तिकत्वमन्यं च कालविशेपादिकं विशेषहेतुमपेक्ष्य मारणाय प्रभवति नान्यथा, ज्वलनोऽपि च स्वविषयस्य दालस्वभावत्वं शुष्कत्वं पवनादिकं च विशेषहेतुमवाप्य दाहनिमित्तं भवति न तद्भावे । तथा चाह-' न य सत्तामेत्तेणं इत्थपसाहगा तेऽवित्ति', चो हेतौ, यस्मान्न सत्तामात्रेण - स्वसन्निधानभावमात्रेण तेऽपि - विषादयो दृष्टान्तत्वेनोपात्ता 'इष्टार्थप्रसाधका' मारणादिखकार्यप्रसाधकाः, कुत इत्याह- 'सवत्थ अइप्पसंगाओ' सर्वत्र - निरुपक्रमायुष्कादिष्वपि अतिप्रसङ्गात्, तस्मात्सोपक्रमत्वादिकं विशेषमपेक्ष्यैव विषादयो मारणादिनिमित्तं भवन्ति नान्यथा, न चासौ सोपक्रमादिको विशेषहेतुः सर्वत्रास्ति, ततस्तेषु सन्निहितेष्वपि विषादिषु मरणामरणादिवैचित्र्यमुपपद्यते, न त्वेवमिह बन्धावन्धौ ॥ १८३ - १८४ ॥ यत आहरागादिपरिणती पुण फरुसत्तसमा विसेस उत्ति ।
अप्पाणगम्मि य जतो वेधम्मं तेण दोपहंपि ॥ १८५ ॥
रागादिपरिणतिः पुनर्यस्माज्जलसंयोगस्य तथाविधपरुपत्यमिव कर्म्मबन्धस्य विशेषहेतुरात्मन्यपि - जगद्धातर्यपि विद्यते, आस्तां शेषजीवेष्वित्यपिशब्दार्थः, तस्मादुभयोरप्यविशेषेण बन्धः प्राप्नोति, विशेषहेतोरुभयत्राप्यविशेषेण भावात् । तथा च सति यदुक्तम् — 'यथा सद्भावाविशेषेऽपि वस्त्रं जलेन संयुज्यते न तु पद्मिनीपत्रं, तथेहापि रागादि -
For Private & Personal Use Only
www.jainelibrary.org