________________
धर्म
॥ ९६ ॥
Jain Education Int
इत्यत आह- 'गंतेत्यादि' न यस्मादेकान्तनित्यपक्षे अनित्यपक्षे च सुखादियोगो युक्तो, यथा च न युक्तस्तथोपरिष्टादाचार्येण खयमेव वक्ष्यते, ततो विपक्षादन्यथाऽनुपत्त्या व्यावर्त्तमानः परिणाम्यात्मधर्म्मत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ॥ १९४ ॥ तत्रैकान्तनित्यपक्षे सुखादियोगस्यायुक्ततां भावयन्नाह
एगसहावो णिच्चो स जइ सुही णिच्चमेव तब्भावो ।
पावs तस्स अह दुही दुहभावो दिस्सए चुभयं ॥ १९५ ॥
मात्मा एकान्तनित्य इष्यते ततो हन्त सर्वदैवायमेकस्वभाव इष्टः स्यात्, अप्रच्युतानुत्पन्नस्थिरैकस्वभावलक्षणत्वादेकान्त नित्यत्वस्य, ततश्च स यदि सुखी स्यात् ततो नित्यमेव ' सर्वदैव तस्य - आत्मनस्तद्भावः- सुखिभावः प्राप्नोति, अथ दुःखी तर्हि नित्यमेव दुःखिभावः प्राप्नोति । भवत्वेतत् का नो हानिरिति चेदत आह- 'दिसते चुभयमिति' | दृश्यते चोभयं - सुखःदुखरूपमात्मनः तथाहि - स एव पुत्रजन्मादिना सुखी तद्वियोगादिना च दुःखी दृश्यत इति ॥ १९५॥ अत्र पराभिप्रायमाशङ्कमान आह-उभयसहावोत्ति मती जुगवं वेदेज दोऽवि सुहदुक्खे | कमवेदगरसभावोऽणिच्चत्तं पावती अवस्सं ॥ १९६ ॥
For Private & Personal Use Only
संग्रहणिः.
॥ ९६ ॥
www.jainelibrary.org