SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ धर्म. १७ Jain Education I अथ स्यादियं मतिः परस्य यथा दृश्यते एवास्माभिरप्यात्मनः सुखदुःखानुभवो न च दृष्टस्यापह्नवः कर्तुं शक्यते, मा प्रापदतिप्रसङ्गः, तस्मात्सुखदुःखोभयस्वभाव आत्मेष्यत इति, अत्र दूषणमाह - 'जुगवमित्यादि' यद्येवमिष्यते ततो हन्त युगपदेककालं द्वे अपि सुखदुःखे वेदयेत, उभयस्वभावत्वात् न च वेदयते, तदनुभवस्य स्वसंवेदनप्रत्यक्षेण क्रमशो निश्चीयमानत्वात्, यश्च क्वचित् यौगपद्याभिमानो यथा नदीमुत्तरता यदैव पादयोः शीतलजलसंस्पर्शात्सुखमनुभूयते तदैव खल्वाटे शिरस्यातपसंपर्कतो दुःखमपीति, सा भ्रान्तिः कालस्यात्यन्तसूक्ष्मत्वेन मनसोऽतीवाशुसंचारित्वेन च क्रमानुभवस्य सतोऽप्यनुपलक्षणात् मनो यत्यन्तसूक्ष्मं ततो यदैकेन स्पर्शनेन्द्रियदेशेन सह संबध्यते न तदैवान्येन, यद्देशेनैव च सह संबद्धं तद्देश एव विज्ञानहेतुः नेतरत्र, ततो न युगपद्विज्ञानानुभवसंभव इति स यौगपद्येनानुभवाभिमानो भ्रान्तिमात्रमेव । तदुक्तम् - "मुंहुमाऽऽसुचरं चित्तं इंदियदेसेण जेण जं कालं । संबज्झइ तं तम्मत्तनाणहेउति नो तेण ॥१॥ उबलब्भइ किरियाओ जुगवं दो दूरदेसभिन्नाओ । पायसि - रोगयसीउण्हवेयणाणुभवरूवाओ ॥ २ ॥ इति । अपि च युगपज्ज्ञानानुत्पत्तिरेव मनसो लिङ्गम्, यौगपद्यं चेत् ज्ञानस्याभ्युपगम्येत ततस्तदन्यलिङ्गाभावान्मनः कल्पना निरालम्वना स्यादिति, स्यादेतत्-यदि नाम तस्योभयख १ सूक्ष्ममाशुचरं चित्तमिन्द्रियदेशेन येन यस्मिन् काले | संबध्यते तस्मिन् तन्मात्रज्ञानहेतुरिति नो तेन || १ || उपलभ्येते क्रिये युगपद् द्वे दूरदेशभिन्ने । पादशिरोगतशीतोष्णवेदनानुभवरूपे ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy