________________
धर्म
संग्रहणिः,
॥९७॥
भावता तथापि कथं सदा यौगपद्यन सुखदुःखानुभवप्रसङ्ग आपद्यते, न हि तस्वेत्थंभूतः खभावों, यदत सदा योगपद्येन सुखदुःखे वेदयितव्ये, किंतु सामान्येनोभयवेदकत्वम्, तथा च सति कदाचित्सुखं वेदयिष्यते कदाचिहःखमपीति न कश्चिद्दोप इत्यत आह-'कमवेयगेत्यादि' क्रमेण सुखदुःखयोर्वेदके खभावे इष्यमाणेऽवश्यमनित्यत्वं तस्य प्राप्नोति ॥ १९६ ॥ कथमिति चेत् ? अत आह
वेदेइ जया स सुहं न तदा दुहवेदगस्सभावो से।
तन्निवित्तीऍ तओऽणिच्चो सो जं तओऽणपणो ॥ १९७ ॥ क्रमेण हि सुखदुःखयोर्वेदके खभावे इष्यमाणे वेदयते यदा आत्मा सुखं न तदा-सुखवेदनकाले 'से' तस्यात्मनो दुःखवेदकखभावो विद्यते, ततश्च तदा तस्य-दुःखवेदकखभावस्य निवृत्तौ सत्यां 'तउत्ति' सक आत्मा अनित्यः प्राप्नोति, स्वभावनिवृत्तौ कथञ्चित्वभाववतोऽपि निवृत्तेः, कथमित्यत आह-'सो जं तओऽणण्णो' सः-दुःखवेदकः खभावो यत्-यस्मात्ततः-तदात्मनः सकाशादनन्यः-अनान्तरभूतः, न हि खभावः स्वभाविनोऽर्थान्तरभूतो भवितुमर्हति, अन्यथा निःस्वभावत्वेन तस्य खरविषाणस्येवाभावप्रसङ्गात्, ततोऽनर्थान्तरभूतस्य दुःखवेदकखभावस्य निवृत्ती
| तस्याप्यात्मनः कथञ्चिन्निवृत्तिरित्यनित्यत्वम् ॥ १९७ ॥ अत्र पराभिप्रायमाह
|९७॥
C
Jain Education Inter
For Private
Personel Use Only
www.jainelibrary.org