________________
अह णो तस्स निवित्ती कहं ण दुक्खी ? जहा सुही. को वा ।
उभयसहावत्ते सइ हंदि विसेसो स जेण सुही ? ॥ १९८॥ | अथ स्यादियं मतिः परस्य-न तस्य-दुःखवेदकखभावस्य निवृत्तिः, किंतु सोऽपि तदानीं विद्यत एव, ततो न कश्चिद्दोष इति,अत्राह-'कथमित्यादि' यदि स दुःखखभावस्तदानीं न निवर्तते तर्हि कथं स आत्मा दुःखी न भवति ?, यथा सुखी, स हि तदा सुखी सुखवेदकखभावत्वाद्भवति, स च वेदकखभावस्तदानीं दुःखस्याप्यविशिष्ट इति दुःख्यपि स्यादेव, अथ न सुखस्य दुःखस्य वा वेदकखभावसंभवमात्रेणात्मा सुखी दुःखी वा भवति, किंत्वन्यस्माद्विशेषहेतोरित्यत आह-'को वेत्यादि' उभयखभावत्वेऽविशिष्टेऽपि 'हंदीति' परामन्त्रणे को वाऽसौ विशेषो विद्यते ? येन विशेषेण संभवता सता आत्मा तदान सुखी भवति न तु दुःखी ?, नैव कश्चिद्विशेषोऽस्तीति भावः ॥१९८॥ परो विशेषमुपदर्शयितुमाह
अस्थि विसेसो जम्हा स सुही सहकारिकारणं पप्प । होइ सयचंदणादी विससत्थादी य दुक्खित्ति ॥ १९९ ॥
Jain Education
For Private & Personel Use Only
w
w w.jainelibrary.org