SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ९८ ॥ Jain Education अस्ति विशेषो यद्वशादुभयस्वभावत्वेऽविशिष्टेऽपि कदाचित् सुखी कदाचिदुःखी, तमेव विशेषं सुखादिलक्षणकार्यान्वयव्यतिरेकाभ्यां दर्शयति-यस्मात्सः - आत्मा स्रक्चन्दनादिकं सहकारिकारणं प्राप्य सुखी भवति, विपशस्त्रादिकं च सहकारिकारणमासाद्य दुःखी, अस्माच्चान्वयाभिधानाय तिरेकोऽपि लभ्यते, अन्वयस्य व्यतिरेकाविना भूतत्वात्, ततश्च यतः स्रक्चन्दनाद्यभावे न सुखी भवति नापि विपशस्त्राद्यभावे दुःखी, तस्मादस्त्येव च स्रक्चन्दनादिविपशस्त्रादिलक्षणसहकारिकारणसन्निधानरूपो विशेष इति ॥ १९९ ॥ स्यादेतत् यद्येवं विशेषस्ततोऽस्यापि युगपत्संनिधानात्स एव यौगपद्येन सुखदुःखानुभवप्रसङ्गः प्राप्त इत्यत आह णय तेसि सण्णिहाणं जुगवं नो तेण होंति सुहदुक्खा । इय उभयसन्निहाणे पावइ नणु उभयभावोऽवि ॥ २०० ॥ न च 'ते' सक्चन्दनादीनां विपशस्त्रादीनां च युगपद् - एककालं सन्निधानं, किंतु कदा चित्, तेन कारणेन न सुखदुःखे युगपद्भवतः । अत्र दूषणमाह -' इय' इत्यादि, इतिरेवमर्थे, एवं सति कदाचिदुभयस्य - सक्चन्दनादिविषशस्त्रादिलक्षणस्य सन्निधाने सति, नन्विति पराक्षेपे, तस्यात्मन उभयभावोऽपि -सुखदुःखभावोऽपि प्राप्नोति, तथा कारणसंभवात् अन्यथा तत्तस्य कारणमेव न स्यात्, न चोभयसन्निधानं न भवति, कदाचित्तथोपलम्भात्, न च तथोभयसन्निधानेऽपि कदाचनापि सुखदुःखोभयभावो यथोक्तं प्रागिति यत्किञ्चिदेतत् ॥ २०० ॥ For Private & Personal Use Only संग्रहणिः. ॥ ९८ ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy