________________
धर्म
॥१६४॥
Jain Education Inter
सोय असंखपएसो लोगागासप्पदेसतुल्लोत्ति ।
जइ एवं संकुडिओ थेवपए से कह चिट्ठ (ठा ) ति ? ॥ ३८७ ॥
स च - आत्मा असंख्यप्रदेशः । कुत इत्याह- 'लोगागासपदेस तुलत्ति' यस्मादसौ लोकाकाशप्रदेश तुल्यो- लोकाकाशप्र| देशतुल्यप्रदेशः, केवलिसमुद्घातावस्थायां चतुर्थसमये तत्प्रदेशैः सकललोकाकाशपूरणादिति, तस्मात्सोऽसंख्य प्रदेशः । पर आह- 'जइ इत्यादि' यदि एवं सकललोकाकाशप्रमाणप्रदेशोऽयमात्मा, ततः कथं संकुटितः सन् स्तोकप्रदेशेषुस्तोकाकाशप्रदेशेषु तिष्ठति, संकुटनेऽपि तत्सत्ताया अपचयाभावात्, तदवस्थस्य च तदल्पतरदेशेऽवस्थानायोगादिति, तदेतदबाधकं तथाष्टत्वात् ॥ ३८७ ॥ तथा चाह
जह खलु महापमाणो णेत्तपडो कोडितो णहग्गम्मि ।
तमिव तावति ते चि फुसइ पएसे ण इय जीवो ॥ ३८८ ॥
यथा खलु महाप्रमाणोऽपि हस्तशतादिमानतया नेत्रपटः कोटितः - संकोचितः सन् नखाग्रे तिष्ठति, न च तत्संकोचने तत्सत्ताया अपचयः, तद्वदयमध्यात्मा लोकाकाशप्रदेशप्रमाणोऽपि संकुटितः सन् तत्सत्ताया अनपचयेऽपि | स्तोकप्रदेशेषु स्थास्यतीति । परो दृष्टान्तदान्तिकयोर्वैषम्यमापादयन्नाह - तस्मिन्नपि नखाग्रे तिष्ठन् नेत्रपटस्तावत
For Private & Personal Use Only
संग्रहणिः
॥१६४॥
w.jainelibrary.org