________________
Jain Education Inte
स्वसंबन्धिनि चैतन्यमिति ॥ ३८४ ॥ तदेवमात्मनः शरीरमात्रत्वं प्रसाध्य संप्रति सप्रदेशत्वं सिसाधयिपुराह - करचरणादिसु जोगा न य अपदेसोत्ति होइ विन्नेओ । अपदेसम्म य पावइ करचरणादीणमेगत्तं ॥ ३८५ ॥
करचरणादियोगात् — करचरणशिरोहृदयादिसंबन्धान्न चासावात्मा अप्रदेश इति भवति ज्ञातव्यः । कुत इत्याहअपदेसेत्यादि चो' हेतौ यस्मात्तस्मिन्नात्मन्यप्रदेशे सति करचरणादीनामेकत्वं प्राप्नोति ॥ ३८५ ॥ एतदेव
,"
भावयन्नाह
जो चैव उकरदेसे स एव जं होति चरणदेसेवि । तो एगत्तं भेदे सपदेसो नियमतो होइ ॥ ३८६ ॥
यत् - यस्मात् य एवात्मा करदेशे व्यवस्थितः स एव चरणदेशेऽपि 'तो' तस्मात्तदभिन्नदेशत्वादात्मन इव तयोरपि करचरणयोरेकत्वम् - एकदेशत्वं प्राप्नोति । अथ मा भूत् दृष्टहानिरिति तयोः करचरणयोर्भेद इष्यते । तत आहभेदे - भिन्नत्वे करचरणयोः सति तदभिन्नत्वादात्मापि नियमतः सप्रदेशो भवति, अन्यथा युगपत्करचरणादिभिः सह संबन्धायोगात् ॥ ३८६ ॥ प्रदेशपरिमाणमाह
For Private & Personal Use Only
www.jainelibrary.org