________________
SEKAS-X-R
संग्रहणिः ,
॥१६॥
COMROSAROLORRRRRRC
तम्हा आतत्थं चिय सवं परिछिदइ तयंपि ॥ ३८३ ॥ द्रव्यगमनमपि आस्तामद्रव्यगुणगमनमित्यपिशब्दार्थः,न कथंचिदपि तत्र-अलोके युज्यते । कुत इत्याह-धर्मविरहात्-गत्युपष्टम्भकधर्मास्तिकायाभावात् । तस्मात्तदपि केवलज्ञानमात्मस्थमेव सत् सर्व-लोकालोकात्मकं ज्ञेयं परि-1 छिनत्ति। यदपि च 'सर्वगतावभासमित्यादि वचनं तदप्यविरुद्धमेव, परिच्छेदशक्तरेवावभासशब्दवाच्यत्वात् । उक्तंच-"सर्वगतावभासमित्यादि विरुध्यत इतिचेत् । न । परिच्छेदशक्तेरेवावभासत्वात् , अवभासः परिच्छित्तिः संविदिति बनान्तरमिति" ॥३८३॥ उपसंहारमाह
एवं सरीरमेत्तो आया सिद्धो ण याणुमित्तादी ।
__ जुगवं सवसरीरे चेतण्णासंभवाओ य ॥ ३८४ ॥ एवम्-उक्तेन प्रकारेण शरीरमात्रः-शरीरप्रमाण आत्मा सिद्धः। स्यादेतत् ,मा भूदुक्तवदयम् आत्मा सर्वव्यापी,अणुमात्रादिरूपो भविष्यति,यथा अन्यैः परिकल्प्यते, "श्यामाकतन्दुलमात्रोऽयमात्मा,अङ्गुष्ठपर्वमात्रोऽयमात्मा" इत्यादि, तत्कथं शरीरमात्रःसिद्ध इत्यत आह-'न येत्यादि' न चासावात्मा अणुमात्रादिः,आदिशब्दादङ्गुष्ठपर्वमात्रादिपरिग्रहः। कुत ? इत्याह-युगपत्सर्वशरीरचैतन्यासंभवात्-चैतन्यासंभवप्रसङ्गात् ,अनुभूयते च सामान्याकारेण सर्वस्मिन्नपि शरीरे
RESENSUSCAR
॥१६३॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org