SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Jain Education एवाकाशप्रदेशान् स्पृशति यावतो विस्तारितः सन् संकोचविकाशयोस्तत्सत्तापचयोपचयाभावात्, केवलं तत्र प्रतरघनमात्रकृत एव विशेषः, 'न इय जीवोत्ति' न इतिः - एवं नेत्रपटवत् संकोचे विकाशे च तावन्मात्रप्रदेशस्पर्शको जीवः, समुद्घातावस्थायां सकलमपि लोकमभिव्याप्य तत ऊर्ध्वं तदसंख्येयभागमात्रेऽवस्थानादिति ॥ ३८८ ॥ अत्राहदेसे संपुन्नाणं अभावतो तस्स सुहुमपरिणामा । ठगमवि बहवे बादरतो व पडवे ॥ ३८९ ॥ तस्य - आत्मनः सूक्ष्मपरिणामादेकस्मिन्नप्याकाशदेशे बहवः प्रदेशास्तिष्ठन्ति, दृष्टं च सूक्ष्मपरमाणूनां मूर्त्तानामपि यावत् एकस्मिन्नप्याकाशप्रदेशे बहूनामवस्थानं, यथैकापवरकस्थित प्रदीपशतप्रभापरमाणूनाम्, 'नेवं पडदवे इति 'न एवं | पटद्रव्ये पटद्रव्यविषयाः प्रदेशा बहवोऽप्येकस्मिन्नाकाशदेशेऽवतिष्ठन्ते । कुत इत्याह-वादरत्वात् । ननु यद्यात्मप्रदेशानां बहूनामप्येकस्मिन्नाकाशदेशेऽवस्थानं ततः कथं कदाचित्सर्वेषामपि न भवति ?, संकोचविपयसामर्थ्यस्य कुन्ध्यादिषु प्रकृष्टतरस्यापि दर्शनात् । अत आह- 'देसे संपुण्णाणं अभावउत्ति' देशे - एकस्मिन्ना काशप्रदेशे संपूर्णानां सर्वेषामप्यात्मप्रदेशानामवस्थानाभावात् । कथमिदं ज्ञायत इति चेत् । उच्यते - सर्वस्य हि संसारिणोऽवश्यं कार्मणेन वपुषा भवितव्यं तच्च तथाविधानन्तानन्तपरमाणुस्कन्धप्रचितत्वाज्जघन्यतोऽप्यसंख्यप्रदेशावगाहि, ततः कथंचिदभेदेन For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy