________________
धर्म
॥१६५॥
Jain Education In
***
तदुपश्लेषादात्मनोऽप्यसंख्येयप्रदेशावगाहित्वमेव युज्यते, नतु कदाचिदेकप्रदेशावगाहित्वम्, सिद्धानां पुनः कायादिकरणाभावेन तथाविधप्रयत्नाभावात् न संकोचविकाशधर्मता, किंतु योगनिरोधावसरे यावत्प्रमाणावगाहिता आसीत् | तावत्प्रमाणैवेति । तदेवमयमात्मा लोकाकांशप्रमाणप्रदेशस्त त्तच्छरीरपरिग्रहाच्च तावत्प्रमाणाकाशदेशावगाही, शरी| राच्च कथंचिदभेदात्तस्यावस्थाभेदे सति तस्याप्यवस्थाभेदात्परिणामीत्युपपादितम् ॥ ३८९ ॥ सांप्रतमेतदेव परिणामित्वमनुसंधित्सुरप्रकृतमुपसंहरन्नाह
पगतमिदाणिं भणिमो कयं पसंगेण तं पुण इमं तु । परिणामी खलु जीवो देहावत्थाण भेदाओ ॥ ३९० ॥
कृतं - पर्याप्तं प्रसङ्गेन, प्रकृतमिदानीं भणामः । तच्च प्रकृतमिदं, यदुत परिणामी खल्वयं जीवो देहावस्थानां - बाल - त्वादीनां भेदात् ॥ ३९० ॥
एवं सुहादिजोगो न अन्नहा जुज्जए सती चेव । संसारो कम्मफलं मोक्खो य पसाहियमिदं च ॥ ३९१ ॥
२ तावत्तावत्प्रमाणेति क. ख. पुस्तक - पाठः ।
१ लोकाकाशप्रदेशप्रमाणप्रदेश इति क - पुस्तकपाठः ।
For Private & Personal Use Only
संग्रहणिः,
॥१६५॥
www.jainelibrary.org