SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter पच्चक्खपसिद्धातो सयलव्ववहारमूलभूतातो । बसंतरभेदाओ अण्णयवइरेयभावातो ॥ ३९२ ॥ एवं परिणामित्वे सति सुखादियोगो युज्यते नान्यथा, तथा स्मृतिश्चैव, संसारः, कर्मफलं, मोक्षश्च । इदं च परिणामित्वं प्रागेव प्रसाधितम् । कुत इत्याह- प्रत्यक्षप्रसिद्धात् अन्वयव्यतिरेकभावात् - अनुवृत्तिव्यावृत्तिभावात् कथंभूतादित्याह - बाह्यान्तरभेदात्, तथा (त्र) वाह्यो देहघटादिगत आन्तर आत्मगतः, पुनरप्येनमेव विशेषयति-सकलव्यवहारमूलभूतात्, न ह्यन्वयव्यतिरेकभावमन्तरेण कश्चित्कार्यकारणभावादिको व्यवहारो घटत इत्युपपादितं प्राक् प्रपञ्चेनेति ॥ ३९१ - ३९२ ॥ सांप्रतमेतदेव प्राक् प्रसाधितं परिणामित्वं विनेयजनानुग्रहाय दृष्टान्तेन भावयन्नाह - जह कंचणस्स कंचण-भावेण अवट्ठियस्स कडगादी | उप्पनंति विणस्संति चेव भावा अणेगविहा ॥ ३९३ ॥ यथा काञ्चनस्य सुवर्णस्य काञ्चनभावेन - सर्वभावानुयायिन्या सुवर्णसत्तमा अवस्थितस्य कटकादयः - कटककेयूर - कर्णालङ्कारादयो भावाः - पर्याया अनेकविधा उत्पद्यन्ते विनश्यन्ति च ॥ ३९३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy