________________
धर्म
संग्रहणि
॥१६६॥
एवं जीवद्दवस्स दवपज्जवविसेसभइतस्स।
निच्चत्तमणिच्चत्तं च होति नाओवलब्भंतं ॥ ३९४ ॥ एवं जीवद्रव्यस्य द्रव्यपर्यायविशेषभक्तस्य-अनुभवप्रमाणसिद्धयोभयरूपतया विशिष्टस्य न्यायेनोपलभ्यमानं नित्यतत्वमनित्यत्वं च भवति । न्यायः पुनरयं-इह बालाद्यवस्थासु मिथो विभिन्नाखपि जीवत्वाद्यन्वय उपलभ्यते तत्रैव | च बालाद्यवस्थाभेदश्चेति ॥ ३९४ ॥ अमुमेव न्यायं समर्थयितुकाम आह
कारणधम्माणं जइ णो कज्जे संकमो कहंचिदवि ।
तो कह णु तस्स कजं तं तस्स च कारणं इतरं ? ॥ ३९५॥ यदि कारणधर्माणां कार्ये कथंचिदपि न संक्रमः स्यात्ततः कथं तत्तस्य कार्यमितरच तस्य कारणं ?, नैव कथंचिदपीति भावः ॥ ३९५॥ तथाहि
पुढवीधम्माण पडे ण संकमो जह तहेव य घडेवि ।
तुल्ले असंकमे किं घडो तु कजं नतु पडादी ? ॥ ३९६ ॥ १ यस्स इति खपुस्तके।
ACCOACCUSAROSCOct
॥१६६॥
Jan Education
For Private Personel Use Only
Syoww.jainelibrary.org