________________
RESEARCA
तम्हा मजंगेहिं जायति मजं ततो य जीवस्स ।
मदसत्तीपरिणामो दधिसंजोगे व णिदादी ॥ ८६ ॥ यत एवं न शक्तेरन्यत्र संक्रमस्तस्मान् 'मद्याङ्गेभ्यो' धातक्यादिभ्यो मद्यं जायते, तस्माच मद्यादुपभुज्यमानात् जीवस्य मदशक्तिपरिणामः, अत्र दृष्टान्तमाह-'दधिसंयोगे इव निद्रादि'रिति, यथा दधिसंयोगे-दनि उपभुक्ते, निद्रादिपरिणामशक्तिःतन्न मद्ये मदशक्तिः, अपि तु जीव एव, तथा च सति मदशक्तिदृष्टान्तोऽनुपपन्नः, साधनविकलत्वात् । | केवलमद्याङ्गसमुदयभावे मदशक्तेरभावात् ॥ ८६ ॥ सर्वोपसंहारमाह
एवं ण भूतधम्मो ण य कजं चेतणत्ति सिद्धमिदं ।
जस्सेतं सो आता पसाहगं चेत्थ माणमिदं ॥ ८७ ॥ एवं यथोक्तं प्राक्-तथा न भूतधर्मश्चेतना नापि कार्य भूतानामिति शेषः, इति इदं सिद्धम् । ततश्च पारिशेष्यात् यस्येयं चेतना स आत्मेति प्रतिपत्तव्यम् । तदुक्तम्-"अचेतनानि भूतानि, न तद्धर्मो न तत्फलम् । |चेतनास्ति च यस्येयं, स एवाऽऽत्मेति चापरे ॥१॥" अस्मिंश्चार्थे भूतधर्मत्वभूतकार्यत्वप्रतिषेधरूपे प्रसाधक प्रमाणमिदं वक्ष्यमाणम् ॥ ८७ ॥ तदेवाह
CACANCEOCOCOMCOLLECCASSA
R
Jain Education in
For Private & Personel Use Only
Diwww.jainelibrary.org