________________
संग्रहणिः
दन्यथापि संदिह्यते स कथं युक्तिर्भवेदिति । तथा यदपि मद्ये उत्पन्ना मदशक्तिः पानकगता सती खकार्य करोतीति प्राक् शक्तेरन्यत्र संक्रमणमुक्तं, तत्रापि प्रतीतिवाधा, नह्येवं लोके प्रतीतिरस्ति, किंतु मद्याङ्गेभ्यो मद्यमुत्पद्यते, तत्संयोगाच्च जीवस्य मदशक्तिरिति प्रतीतिः। यदपि उत्क्षेपणादिका शक्तिर्देवदत्त स्योत्पन्नापि कुम्भाधुत्क्षेपणादिगता दृश्यत इत्युक्तं, तदप्यसमीचीनम् , तत्रापि हि देवदत्तहस्तादिसंबन्धविशेषभावतः कुम्भादेरेवोत्क्षेपणादिपरिणामशक्तिरुत्पद्यते, यतस्तस्योत्क्षेपणादिपरिणामो भवति, न च सा शक्तिरन्यत्र संक्रामति, देवदत्तस्यापि खपरिणामविशेपवशात् सा शक्तिरुदपादि, या कुम्भादेर्दूरतरोत्क्षेपणादिपरिणामशक्तिमुत्पादयितुमुत्सहते, न च साप्यन्यत्र संक्रामति। येन च यस्य यत्परिणामशक्तिराधीयते तेन तस्य स परिणामः कृत इत्युच्यते, तेन देवदत्तेन कुम्भादिरक्षिप्यत इत्यादिको लौकिकोऽपि व्यवहार उपपद्यते, यथा मद्येन माद्यत इति, तन्न शक्तेरन्यत्र कथंचनापि संक्रमः, सोऽपि चेदभ्युपगम्यते तर्हि प्रतीतिबाधाप्रसङ्गः। अत्रैव दृषणान्तरमाह-'न य पमाणमिति' न चैवंविधस्यार्थस्य शक्तेरन्यत्र संक्रमलक्षणस्य साधकं किंचित् प्रमाणमस्ति, न च प्रमाणमन्तरेणाभिप्रेतोऽर्थः सिद्धिमश्नुते, मा भूत्सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तिः, तन्न मद्ये मदशक्तिरुत्पद्यते, किंतु मद्यसंयोगतो जीव इति स्थितम् ॥ ८५॥ अमुमेवार्थ उपसंहारेण दर्शयति
॥४७॥
--
Jain Education inte
For Private Personal Use Only
www.jainelibrary.org