SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ SSSSSSOCIRCLEARCH स्थादेवं मतिः परस्य-सा मदशक्तिः खलुशब्दो निश्चये, निश्चितमेतत् यदुत आश्रयाद्विशिष्टः पृथग्भूतो यः पानकस्तेन सह संबन्धं गता सती खकार्य करोति । तुशब्दो भिन्नक्रमः, चेतनाशब्दानन्तरं द्रष्टव्यः । चेतना तु न एवं-मदशक्तिरिव खाश्रयाद्भिन्ने वस्तुनि खकार्य करोति, किन्तु स्वाश्रय एव । एतच्चैवं कुत इति चेत् अत आह'खभावात्' तथाखभावत्वादित्यर्थः, न च खभावे पर्यनुयोगोऽस्ति । अत्रोत्तरमाह-'न जीवभावाओ का जुत्ति त्ति' तथाखभावत्वान्मदशक्तिः खाश्रयाद्भिन्ने वस्तुनि कार्य करोति, चेतना तु खाश्रय एवेति प्रतिपत्तव्यं, न पुनर्मदशक्तेश्चेतनायाश्च जीवभावः, तस्मान्मदशक्तिः पानके, चेतना तु जीवच्छरीरे खकार्य करोतीति प्रतिपत्तव्यम् , अत्र का युक्तिः?, नैव काचिदिति यत्किंचिदेतत् ॥ ८४ ॥ पराभिप्रायमाह अह तु सभावो जुत्ती ण स एव विवादगोयरावन्नो। अन्नत्थ संकमम्मि य पतीतिबाधा ण य पमाणं ॥ ८५॥ अथ मन्येथाः-खभाव एव तुशब्द एवकारार्थो भिन्नक्रमश्च युक्तिर्नान्या, न हि अग्निर्दहति नाकाशमित्यत्र स्वभावादन्या काचिद्युक्तिरस्तीति, अत्राह-यदुक्तं प्राक् तन्न, कुत इत्याह-यस्मात्स एव स्वभावो विवादगोचरापन्नोतः कथं स युक्तिर्भवेत् ?, यो हि खभाव उभयसंप्रतिपन्नः स एव युक्तिर्भवितुमर्हति, यस्तु कुतश्चित्कारणविशेषा-18 COCIENCEOCORICALCCALCALCIAL Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy