________________
यदि स्रक्वन्दनादिकाद्विषशस्त्रादिकाद्वा सहकारिणः सकाशादात्मन उपकारो भिन्नो जातस्ततस्तस्यात्मनः किमायातं?,नैव किञ्चनेति भावः,सहि तदवस्थ एव, ततःप्राग्वत् स सुखी दुःखी वा तदा न स्यात् , अथ तेन सहकारिजनितेनोपकारेणात्मनः पुनरुपकारः क्रियते ततः कथमुच्यते किमागतं तस्येत्यत आह-तत्तो इत्यादि' ततः-सहकारिकृताद्भिन्नादुपकारात्पुनरपि-भूयोऽपि तस्मिन्नुपकारे भिन्नेऽभ्युपगम्यमाने दोषो महान् प्राप्नोति,क इत्याहअनवस्था तु-अनवस्थाप्रसङ्गः, तुः पूरणे, तथाहि-उपकारेणापि कृत उपकारस्तस्मादात्मनो भिन्न एव स्थादभेदपक्षस्थानभ्युपगमात्, तथा च सति तस्य किमागतमित्यादि तदेवावर्त्तते इत्यनवस्था ॥२०३॥ द्वितीयपक्षे| दोषमुद्भावयन्नाह
अन्भिन्नम्मि अणिच्चो पावइ जीवो तहा य तकरणे।
पुवातो अन्नो च्चिय भिन्नसहावो कतो होति ? ॥ २०४ ॥ सहकारिणः सकाशादभिन्ने-अनर्थान्तरभूते उपकारे जाते सति सजीवः-आत्मा अनित्यः प्रामोति। कथमित्याह-| 'तहा येत्यादि' तथा चेति अनित्यत्वप्रसक्तिप्रकारोपदर्शने, तत्करणे-तस्य-अनर्थान्तरभूतस्योपकारस्य करणे पूर्वस्मात्-पूर्वकालभाविनो जीवादन्य एव-विभिन्नखभावो जीवः कृतो भवतीति ॥२०४॥
Jain Education inte
For Private & Personel Use Only
ww.jainelibrary.org