________________
धर्म
SOCCASA
संग्रहणिः.
॥९९॥
टवत् , तथा च सति तदापि तदवस्थत्वान्नात्मा सुखी दुःखी वा स्यात् । अथ मा भूदेष दोष इत्यभिन्न उपकारः क्रियत इत्यभ्युपगम्यते, तदयुक्तम् , विकल्पाभ्यामनुपपत्तेः, तथाहि-स उपकार आत्मनोऽनर्थान्तरभूतः क्रियते किं विद्यमानोऽविद्यमानो वा ?, यदि विद्यमानः कथं क्रियते ?, कृतस्य करणायोगात्, क्रियते चेत्तीनवस्थाप्रसङ्गः, विद्यमानस्यापि हि करणाभ्युपगमे विद्यमानत्वाविशेषात् भूयो भूयः करणप्रसङ्गः, अथाविद्यमानो, व्याहतमेतत् , सतोऽनर्थान्तरभूतोऽविद्यमानश्चेति, विद्यमानाव्यतिरिक्तो हि विद्यमान एव भवति, अन्यथा तदव्यतिरेकायोगात् । स्यादेतत्-किमनेन गजव्यापादनविकल्पेन (विकल्पकल्पेन) वाग्जालेन? सत एव हि वस्त्रस्य नील्या|दिरागद्रव्येणाविद्यमानस्तदव्यतिरिक्तो नीलतादिरूप उपकारः क्रियमाणो दृष्टः, न च दृष्टेऽनुपपन्नं नाम किंचि|दित्यतो दूपणान्तरमाह--'होइ अणिचो अभिन्नम्मित्ति' अभिन्ने-अनर्थान्तरभूते उपकारे क्रियमाणेऽभ्युपगम्यमाने सति आत्मा अनित्यो भवति-प्राप्नोति,उपकारे हि क्रियमाणे स एवात्मा तथाभूतः कृतः स्यात् ,तस्य तदव्यतिरि-| तत्वादिति ॥२०२॥ एतदेव भिन्नाभिन्नरूपं पक्षद्वयं सप्रपञ्चं भावयति
जइ भिन्नो उवगारो जातो तत्तो किमागयं तस्स ? । तत्तो पुणोवि तम्मि भिन्ने दोसोऽणवत्था उ ॥ २०३ ॥
CCORRORSCOR
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org