________________
॥१०४॥
सुखदुःखे सातेतरकर्मोदयजे-सातासातवेदनीयकर्मोदयसमुद्भवे आत्मपरिणामरूपे, 'जिनैः' सर्वज्ञैः प्रज्ञप्ते, न । संग्रहणि. केवलं जिनैः प्रज्ञप्ते ऊहाविज्ञानगम्ये च, दृष्टस्यान्यथानुपपत्त्या अदृष्टस्यानुस्मरणमूहा सा च तद्विज्ञानं च तेन गम्ये यथोक्तं प्राकू । तदेवं जिनैः प्रज्ञप्तत्वात् ऊहाविज्ञानगम्यत्वाच सुखादीनामात्मधर्मत्वम् , तथा च सति तेषां सुखादीनामन्यथानुपपत्तेरात्मनः परिणामित्वमिति स्थितम् ॥२१७॥ सांप्रतमतिदेशेनान्येषामपि दूषणमभिधित्सुराह
एवं अणुहवसिद्धो घडपडसंवेदणादिभेदोऽवि ।
एगंतणिच्चपक्खे न संगतो बंधमोक्खो य ॥ २१८ ॥ 'एवम्'उपदर्शितप्रकारेण एकान्तनित्यपक्षे घटपटसंवेदनादिभेदोऽपि 'अनुभवसिद्धः' प्रतिप्राणिखसंवेदनप्रमाणसिद्धो| 'न संगतो' न युक्तः, तथाहि-न ज्ञानमात्मनोऽर्थान्तरभूतं, तथा सति खयमचेतनस्य सतःप्रतिप्राणिप्रसिद्धघटपटादिसंवित्त्यभावप्रसङ्गात् , न च ज्ञानमात्मनि समवेतमिति संवित्त्यभावप्रसङ्गोन युक्त इति वाच्यम् , समवायस्य निषेत्स्यमानत्वात् , किंत्वात्मनोऽनन्तरभूतम् , तथा च सति यद्येकान्तेनात्मा नित्य इष्यते ततः प्रतिप्राणिप्रसिद्धो घटपट-II
॥१०४॥ | संवेदनादिविवतः सर्वथा नोपपद्यते, तस्याप्रच्युतानुत्पन्नैकस्थिरखभावत्वात् , किंत्वाकालमेकमेव घटाद्यन्यतमसंवेदनं भवेत् , आस्तामेष संवेदनभेदो न संगतः, अपि तु बन्धमोक्षावपि, तथाहि-एकान्तनित्यस्य सतः सर्वदा बन्धो
Jain Education inHello
For Private & Personel Use Only
Raw.jainelibrary.org