________________
धर्म
॥ ७६ ॥
Jain Education
कारणान्तराभावात् तदभावे च सति सर्वेषामपि सत्त्वाना नियमेन मुक्तिः प्राप्नोति, मुक्तिविबन्धकपुण्यपापवि निर्मुक्तत्वात् । ' एवं च भवसमुद्दोत्ति' भवन्ति कर्म्मवशवर्त्तिनः प्राणिनोऽस्मिन्निति भवस्तिर्यग्मनुष्यादिपर्याय संततिः स एवातिविस्तीर्णतया समुद्र इव भवसमुद्रः स 'प्रत्यक्ष दृष्टोऽपि प्रत्यक्षत उपलभ्यमानोऽपि 'न घटेत' न युज्येत, मुक्तात्मनामिव पुण्यपापाभावात् । तस्मात्प्रत्यक्षसिद्धभवसमुद्रान्यथानुपपत्त्या अवश्यमदृष्टमभ्युपगन्तव्यम् ॥ १४१ ॥ इतश्चाभ्युपगन्तव्यं यस्मात् -
तुल्लफलसाधगाणं तुलारंभाण इविसयम्मि । दीसइ य फलविसेसोस कहं अट्टिभावम्मि ? ॥ १४२ ॥
'तुल्यफलसाधकानां' तुल्य आरम्भः कृष्यादिलक्षणो येषां तेषां यः खलु इष्टविषये दृश्यते 'फलविशेषः' प्राध्यप्रामिलक्षणः, स कथमदृष्टस्याभावे स्याद् ?, नैव स्यादित्यभिप्रायः । तत एकस्मिन्नेव विषये प्रवृत्तानां तुल्योपायानां फलवि| शेषान्यथानुपपत्त्यापि नियमाददृष्टमभ्युपगन्तव्यम् । तत्कारणत्वेन कृष्यादिकापि क्रिया ॥ १४२ ॥ एतदेवोपसंहरतिअदिगंतफला तम्हा किरिया इहं मता सवा | तिफला सावि अदिट्ठाणुभावेणं ॥ १४३ ॥
For Private & Personal Use Only
संग्रहणिः,
॥ ७६ ॥
www.jainelibrary.org