________________
-CALCHAMOSAM
तस्मादिह-जगति चेतनावतां या परिस्पन्दात्मिका क्रिया सा सवाप्यदृष्टैकान्तफला मता, अदृष्टमेकान्तेन-नियमेन फलं यस्याः सा अदृष्टैकान्तफला । उक्तं चा-"जाव णं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुब्भइ8 उदीरइ तं तं भावं परिणमइ ताव णं एस जीवे सत्तविहवंधए वा अट्टविहबंधए वा छबिहवंधए वा एगविहवंधए वा, नो चेव णं अबंधए सियत्ति"। एतामेव क्रियां विशेषयति-'दृष्टानेकान्त फला' दृष्टं धनलाभादि अनेकान्तं-सव्यभिचारं फलं यस्याः सा दृष्टानेकान्तफला, दृष्टं फलं कदाचिदस्या भवति कदाचिन्न भवतीत्यर्थः । सा इत्थंभूता कुत ? इत्याह-साऽपि अदृष्टानुभावेन पूर्वोपार्जिततथाविधादृष्टानुभवसामर्थेन । इह सर्वस्याप्यनन्तरोक्तस्यायमभिप्रायःइह चेतनावतश्चेष्टारूपा क्रिया अवश्यम दृष्टनिबन्धनम् , अन्यथा कारणान्तरासंभवेन तस्याभावप्रसङ्गतस्तन्निबन्धन-18
भवसमुद्राद्यनुपपत्तेः, तत इयं चेतनावतश्चेष्टारूपा क्रिया अदृष्टजननं प्रति कारणान्तरनिरपेक्षत्वेन व्याप्ता, एवं च है सति यदि तस्याः क्रियायाः संभवेऽपि अदृष्टं न भवेत् तर्हि तज्जननं प्रति कारणान्तरापेक्षा स्यादिति सापेक्षत्वं स्वव्यापकविरुद्धं प्रसज्येत, ततो विपक्षायापकविरुद्धोपलब्ध्या निवर्तमाना चेतनावतश्चेष्टारूपा क्रिया अदृष्टफल
१ यावदेष जीव एजति वेदयते-चलति-स्पन्दते-घट्टयति-क्षुभ्यति-उदीरयति तं तं भावं परिणमति तावदेष जीवः सप्तविधबन्धको वाऽष्टCI विधबन्धको वा पविधबन्धको वा एकविधबन्धको बा, न चैव खलु अबन्धकः स्यादिति ।
I CROGRA
Join Education Intel
For Private & Personel Use Only
Kinaw.jainelibrary.org