SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ७७ ॥ Jain Education In जनकत्वेन व्याप्यते इति प्रतिबन्धसिद्धिः । तच्चादृष्टं द्विधा - पुण्यरूपं पापरूपं च । तत्र पुण्यरूपं दानहिंसाविरत्यादिक्रियाजन्यमितरच तद्विपरीतक्रियाजन्यम् ॥ १४३ ॥ न च वाच्यमत्र विपर्ययः कस्मान्न भवतीति, यत आहविवज्जयमिव फलं लोगविरोहा पतीतिबाधातो । वहिदंसणातो तह जिणचंदागमातो य ॥ १४४ ॥ अत्र प्राकृतत्वात् तृतीयार्थे सप्तमी, यदाह पाणिनिः खप्राकृतलक्षणे - " तृतीयार्थे सप्तमी" । यथा - "तिसु तेसु अलंकिया पुहई" । ततश्च न विपर्ययेणापि क्रियायाः फलं संभावनीयं, यथा हिंसादिक्रियाभ्यः शुभं तद्विपरीत| क्रियाभ्यश्चाशुभमिति । कुत इत्याह- लोकविरोधात् न ह्येवं लोके कस्यापि प्रतीतिरस्ति यथा भवता विपर्ययेणोच्यते । अथ कदाचित्परो लोकमप्यतिक्रामेत्, यथा- न खलु लोको यथा प्रत्येति तथैव वस्त्वपि, किंत्वन्यथापि, यथा गगने श्यामता, ततो हेत्वन्तरमाह - 'प्रतीतिबाधातश्च' प्रतीतिः - प्रतीतिविषयः, विषयिणो विषयस्योपलक्षणत्वात्, प्रतीयमानोऽर्थ इतियावत्, न हि ज्ञानं स्वरूपेणार्थेन सह विरुध्यते, किंतु विपरीतमर्थमुपस्थापयत्, अत इह प्रतीतिरिति प्रतीतिविषयो व्याख्यातः, तया प्रतीत्या प्रतीतिविषयेण विपरीतेनार्थेन बाधातः । १ त्रिभिस्तैरलंकृता पृथिवी । For Private & Personal Use Only संग्रहणिः. ॥ ७७ ॥ wwww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy