________________
Jain Education Inter
इदमुक्तं भवति---अशुभरूपस्यादृष्टस्य हिंसादिक्रियाजन्यत्वेन प्रतीयमानेन शुभरूपस्य च दानहिंसाविरत्यादिक्रियाजन्यत्वेन तद्विपरीतस्य कल्प्यमानस्यार्थस्य बाधनान्न विपर्ययेण फलं संभावनीयम् । सा च प्रतीतिर्युक्तत्यागमाभ्याम् । तत्र तावद्युक्तिमुपन्यस्यति - 'थे वसु हिदंसणाओ' स्तोकसुखिदर्शनात्, यदि हि दानादिक्रियादिभिरशुभरूपमदृष्टं जन्येत हिंसादिक्रियाभिव शुभं ततः सुखिबाहुल्यमुपलभ्येत, बहवो हि प्राणिनो हिंसादिक्रियास्वनवरतं प्रवर्त्तमाना उपलभ्यन्ते क्वचिदेव च दानहिंसाविरत्यादिक्रियासु, तदुक्तम् - "बहवः पापकर्माणो, विरलाः शुभकारिणः” इति । ततश्च प्रभूतानां प्रभूततरशुभ कर्मोपचयसंभवेन सुखबहुलता स्यात्, कतिपयानामेव च दुःखबहुलता, अथ च स्तोकाः सुखिन उपलभ्यन्ते वहवश्च दुःखिताः, ततः स्तोकसुखिदर्शनात् हिंसादिक्रियाजन्यमदृष्टमशुभरूपमितरश्च तद्विपरीतक्रियाजन्यमवसेयम् । ननु चेदं स्तोकसुखिदर्शनमसाधनं, निश्चयाभावात्, न हि सक|लदेशकालभाविभावस्वभावावभासि भवतो दर्शनमस्ति यतो यद्यप्यस्मिन् भरतक्षेत्रे स्तोकाः सुखिन उपलभ्यन्ते तथाऽन्यत्र वहवो भविष्यन्तीति संदिग्धासिद्धोऽयं हेतुरित्यत आह- 'तह जिणचंदागमाओ य' चशब्दो वाक्यभेदेन स्तोकसुखदर्शन साधने जिनचन्द्रागमस्य हेतुत्वद्योतनाय, तथा स्तोकसुखिदर्शकत्वेन यो जिनचन्द्रागमस्तस्मात्पुनरिदं स्तोकसुखिदर्शनं सिद्धमिति न संदिग्धम् । एतदुक्तं भवति - यद्यपि देशकालखभावविप्रकृष्टेषु भावेषु नास्मदादिप्रत्यक्षमुदयते, प्रायस्तत्पूर्वकत्वाच्च नानुमानमिति, तथापि भगवतो जिनस्य क्षीणाशेपज्ञानावरणीय कपट
For Private & Personal Use Only
www.jainelibrary.org