________________
- E
धर्म
॥७८॥
NGAGROCCOCCASCIENCE
लत्वात् केवलज्ञानप्रत्यक्षं तद्विषयमुदयते स्म, ततस्तद्वचनात् स्तोका जगति सुखिनः सिद्धा इति न संदिग्धासिद्धो संग्रहणिः, हेतुः॥१४४॥ स्यादेतत् , अस्तु हिंसादिक्रियाजन्यमदृष्टमशुभं तद्विपरीतक्रियाजन्यं च शुभं, तथापि शुभात्सुखमितरस्माच दुःखमिति कथमवसीयत इत्याशङ्कापनोदार्थमियमेव गाथा पुनरावय॑ते
___ण विवजयम्मिवि फलं लोगविरोहा पतीतिबाधातो।
थेवसुहिदंसणातो तह जिणचंदागमातो य ॥ १४५ ॥ न विपर्ययेणादृष्टयोः शुभाशुभरूपयोः फलं संभावनीयम् । कुत इत्याह-लोकविरोधात्, न ह्येवं लोके प्रतीतिरस्ति । यथा भवता विपर्ययेणोच्यते, किंत्वन्यथा, तथा च लोके वक्तारो भवन्ति-कृतशुभकर्मायं चैत्रो यदित्थमनन्यसाधारणान् भोगान् भुङ्क्ते इति'। अथ कदाचित्परो लोकमप्यतिक्रामेत् यथाभिहितं प्राक अतो हेत्वन्तरमाहप्रतीतिबाधातश्चेति, अक्षरार्थः प्राग्वत् । सा च प्रतीतिर्युक्त्यागमाभ्यामतस्तावत् युक्तिमाह-स्तोकसुखिदर्शनात् ।। यदि हि अशुभात्सुखमितरस्माचासुखं ततो बहवः प्राणिनोऽशुभकारिण इति बहवः सुखिन उपलभ्येरन् !, न चोप-15॥ ७८॥ लभ्यन्ते, तस्मान्नाशुभात्सुखं किंतु शुभादेव । अपि चातीन्द्रियेष्वेवंविधेष्वर्थेषु निर्णीयमानेषु छद्मस्थानामविसंवादि. प्रमाणतया जिनवचनमेव प्रायो विजृम्भते, नान्यत्प्रत्यक्षादि, अविषयत्वात्। तत आह-तह जिणचंदागमाओ य|
CROCHECRENCOMEDCOCONORG
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org