SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अत्र तथेति हेत्वन्तराभिधानोद्गारोपक्षेपे, चशब्दस्तु समुच्चय इति । तदेवं दानादिक्रिया अवश्यमदृष्टमविपर्ययेण जनयति, तदपि चादृष्टमविपर्ययेण सुखादीत्युपपादितम् ॥ १४४ ॥ सांप्रतमदृष्टनिवन्धनदानादिक्रियान्यथानुपपत्त्या प्रकृतमुपसंहरति किरिया ण कत्तिरहिता सिद्धो जीवोत्ति ता इहं कत्ता । एवं धम्मियणायं विन्नेयं वयणमेत्तं तु ॥ १४५ ॥ क्रिया न कर्तृरहिता भवति, तथा लोकेऽदर्शनात् , न भवान्तरभाविसुखादिफलादृष्टजनिताया दानादिक्रियाया जीवमन्तरेणान्यः कश्चित्कर्लोपपद्यते, शरीरस्याचेतनत्वेन घटादेखि तत्कर्तृत्वायोगात्, अभ्युपगमे वा तस्य इहैव विनाशादन्य एव कर्ता अन्यच्च भवान्तरे तत्फलभोक्तेत्यनिष्टापत्तिः, तत इह जगति अदृष्टनिबन्धनदानादिक्रियायाः तकर्ता जीवः सिद्ध इति स्थितम् । एवं च सति यदुपहासाय धामिकज्ञातमुदीरितं तद्वचनमात्रमेव, दानादिफलाभावादित्यस्य सम्यग्भावार्थापरिज्ञानात् ॥ १४५॥ सांप्रतं यदुक्तं 'जातिस्मरणमसिद्धमिति तदूषयितुमुपक्रमते जाईसरणं च इहं दीसइ केसिंचि अवितहं लोए। पुत्वभवठवियसेवियसंवादातो अणेगभवं ॥ १४६ ॥ CANCHAR---- Jain धर्म.१४NCH For Private & Personel Use Only H w w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy