________________
धर्म
॥७९॥
-
चशब्दोऽपिशब्दार्थे इह लोके जातिस्मरणमपि अनेकभवम्-अनेकभवविषयं केषांचिदसुमतामवितथार्थ दृश्यते । संग्रहणिः अवितथार्थत्वे हेतुमाह-'पुत्वभवठवियसेवियसंवादाउ'त्ति पूर्वस्मिन्भवे यत्स्थापितं धनादि यच सेवितं ख्यादि तस्य संवादो-यथाऽवगमप्राप्तिस्तदुक्तचिह्नादिमीलनं च तस्मात् ॥ १४६ ॥ अत्र पराभिप्रायमाशङ्कते
अह तम्मि किं पमाणं ? णणु सो चिय अप्पतारगे किंति ? ।
बालस्सवि भावातो संवादो भावतो तस्स ॥ १४७ ॥ अथ मन्येथाः-तस्मिन्नविसंवादिजातिस्मरणे अस्तित्वेन निश्चेतुमिष्यमाणे किं प्रमाणं?, नैव किंचिदित्यभिप्रायः । न च प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता, मा प्रापदतिप्रसङ्गः । आचार्य आह–'नणु सो चिय'त्ति ननु स एव जातिस्मरणवान् प्रमाणम् , स ह्येवमाह-जातिस्मरणमविसंवादि मे समुत्पन्नमिति' । इतर आह–'अप्पतारगेट किं ति' स एवं वक्ता न विप्रतारक एवेत्यत्र किं प्रमाणं?, नैव किंचिदिति भावः । दृश्यन्ते ते हि केचित्क्रीडाद्यर्थमन्यथापि संवाद्याभासमाभाषमाणा इति । आचार्य आह-'संवादो भावओ तस्स'त्ति तस्य-जातिस्मरणवतो यो जातिस्मरणविषयो भावतः-परमार्थेन संवादः सोऽप्रतारकत्वनिश्चये प्रमाणम् । अथोच्येत-स तस्य भावतः संवादो न तु संवादाभास इत्येतदपि कथमवसीयत इत्यत आह-बालस्यापि भावात् , जातिस्मरणस्येति शेषः । एतदुक्तं
ndRRHOICROCURRER
06
Jan Education interna
For Private 3 Personal Use Only