________________
भवति-वालस्यापि सतो जातिस्मरणमुत्पद्यते, न च तस्य संवादो विप्रतारणबुद्धिनिर्मापितो, बालत्वेन तस्य बुद्धिशाट्याभावात्। एवमन्यत्रापि संवादस्तद्गुणपरिशीलनादिना लिङ्गविशेषेण भावतो बोद्धव्यः॥१४७॥ अत्र पर आह--
__ अह उ जहिच्छाहेतू सो संवादोत्ति किं न इतरोवि ? ।
ण य जातिस्सरवयणे इहं पसिद्धो विसंवादो ॥ १४८॥ तुशब्द एवकारार्थो भिन्नक्रमश्च । अथ मन्यसे-बालस्यापि संवन्धिनो जातिस्मरणस्य यः संवादः स यदृच्छा-1 हेतुरेव, तत्कथं संवादो भावतस्तस्येत्युच्यते, एतदुक्तं भवति-भूतानां चित्रखभावतया स्वप्नज्ञानमिव केषांचिदर्थतथाभावविकलं जातिस्मरणमुत्पद्यते, यस्तु क्वचित्तस्य संवादः सः काकतालीयो, यथा क्वचित् बाष्पादेधूमत्वेन निश्चितादग्यनुमाने तथैवाग्निसंवाद इति । अत्रोत्तरमाह--'किन्न इयरोऽवि' किन्न इतरोऽपि विसंवादो?, यथा कापि बाष्पादेरेव धूमत्वेन निश्चितादम्यनुमानेऽग्निविसंवाद इति, भवत्येवेति केचित् , अत आह-'न येत्यादि' न च कदाचिदपि जातिस्मरवचने 'इह' जगति 'प्रसिद्धो निश्चितः कापि विसंवादः, तथाऽनुपलम्भात् । 'जातिस्परे'ति जातिं स्मरतीति जातिस्मरः, "वुलत्रज्लिहादिभ्यश्चेति" लिहादित्वादच् । खकृताभ्युक्तमिति समासो, यथा जारभर इति ॥ १४८ ॥ पराभिप्रायमाह
CARTOONROCOCCIENCERNA
Jain Education
For Private & Personel Use Only
|www.jainelibrary.org