SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ८० ॥ Jain Education Intert दि कोई जाइस्सरोति तो णत्थि । एवं पपियामहस्तवि अच्चतं पावइ अभावो ॥ १४९ ॥ अह अम् अथ मन्येथाः - अस्माभिः कोऽपि न दृष्टो जातिस्मर इति, तस्मान्नैवासौ जातिस्मरोऽस्ति खरविषाणवत् । यदि हि स्यादस्माभिरप्युपलभ्येतेति भावः । अत्र दूषणमाह - 'एवमित्यादि' नन्वेवमुक्तप्रकारेण प्रपितामहस्याप्यत्यन्तमभावः प्राप्नोति, तद्विषयेऽपि भवतो दर्शनाभावात् ॥ १४९ ॥ ततः किमित्याह -- तदभावम्मि अभावो पितामहस्सावि तहय पितुणोऽवि । तदभावे भवतोऽवि य पडिसेहोऽसंगतो तम्हा ॥ १५० ॥ ' तदभावे' प्रपितामहाभावे पितामहस्याप्यभावः प्राप्नोति, प्रपितामहो हि पितामहस्य कारणं, न च कारणाभावे कार्य भवति, निर्हेतुकत्वप्रसङ्गात् । ततः प्रपितामहाभावे पितामहस्याप्यभावः प्राप्नोति । 'तह य पिउणोऽवित्ति' 'तथा च ' तेनैवानन्तरोक्तेन प्रकारेण पितुरप्यभावः प्राप्नोति, पितामहाभावे पितुरयोगात्, 'तदभावे' तस्यापि - पितुरभावे भवतोऽपि चाभावः प्राप्नोति, न्यायस्य समानत्वात् । तथा च सति प्रतिषेधोऽसङ्गतः, प्रतिषेधकस्यैवाभावात् ॥ १५० ॥ अत्र पराभिप्रायमाशङ्कमान आह For Private & Personal Use Only संग्रहणिः. ॥ ८० ॥ w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy