________________
अह कज्जातो भावो पितामहादीणमेवमेवेहं ।
किं जाइस्सरकजं ण पसिद्धं देवकुलमादी ? ॥ १५१ ॥ ___ अथ पितामहादीनामादिशब्दात् प्रपितामहादिपरिग्रहः 'कार्यतः पितृलक्षणादेर्भावः-सत्ता अनुगम्यत इति मन्येथाः। अत्राह-एवमेवेहति इहापि जातिस्मरविषये एवमेव कार्यान्यथानुपपत्तित एव भावो निश्चेष्यते, ततो न किंचिन्नः क्षुण्णमिति । न च वाच्यं-जातिस्मरकार्यमसिद्धं, यत आह-'किं जाईत्यादि' जातिस्मरकार्य 'देवकुलादि' देवकुलं भृगुकच्छे शकुनिकाविहारे, आदिशब्दात्तदन्यैवंविधकार्यपरिग्रहः, किं भवतो न प्रसिद्धं ?, प्रसिद्धमेव, सकललोकप्रसिद्धत्वात् , तन्न जातिस्मरणमसिद्धम् । इतश्च नासिद्धं, संभवानुमानतो निश्चीयमानत्वात ॥१५१॥ तदेव संभवानुमानं भावयन्नाह
बालकताणुस्सरणं तिवखओवसमभावजुत्तस्स ।
जह कस्सइ वुड्ढस्सवि जाइस्सरणं तहा किं ण ? ॥ १५२ ॥ यथा कस्यापि पुंसो वृद्धस्यापि सतस्तीव्रक्षयोपशमयुक्तस्य बालावस्थायामपि यत्कृतं तस्यानुस्मरणं भवति तथा
Jain Education in
For Private Personal use only
w.jainelibrary.org