SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ धर्म | संग्रहणिः ॥८१॥ 5A525ACCIDESOLARS जातिस्मरणं किं न संभवति ?, संभवत्येवेति भावः। तावत्कालविषयस्यापि तत्कारणक्षयोपशमविशेषस्य संभवात्॥१५२॥ उपसंहारमाह इय संभवाणुमाणा सिद्धमिणं जं च भूतवतिरित्तं । साहियमिह चेयण्णं भूयसभावं ति तोऽजुत्तं ॥ १५३ ॥ 'इतिः' एवमुक्तप्रकारेण संभवानुमानादिदं-जातिस्मरणं सिद्धम् । यदप्यवादीत्-'भूतानां चित्रवभावतया खानज्ञानमिवार्थतथाभावविकलं जातिस्मरणमुत्पद्यत इति, तदप्ययुक्तम् , यत आह–'जं चेत्यादि' यत्-यस्मात्कारणादिह-ग्रन्थे प्राक् भूतव्यतिरिक्तं चैतन्यं प्रपञ्चेन साधितं, 'तो' तस्मादिदं चैतन्यं भूतखभावमित्ययुक्तम् । एतेन यदपि प्राक् 'थणाभिलासाओ चेव' इत्यत्र प्रतिविधानमभिहितं यथा-'भूयसहावाउ इयरं पित्ति, तदपि प्रतिक्षिसम-| वगन्तव्यम् । ततश्च यदस्माभिः प्राक् प्रत्यपादि-'यथा बालकस्य प्रथमत एवोत्पन्नस्य स्तनदर्शनानन्तरं स्तनादानेऽभिलाषो जायते स चाभिलाषः पूर्वमित्यादि यावदस्ति देहातिरिक्तः परलोकानुयायी जीव इति' तत्समीची- नमेव । अपि च-आस्तां तावदभिलाषस्यानुभवपूर्वकत्वात्परलोकयायी जीवः सिद्धः, किंत्वभिलाषान्तरपूर्वकत्वानुमानतोऽपि सिद्धः॥ १५३॥ एतदेवोपदर्शयन्नाह १॥ Jain Education Int! For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy