________________
SALMANORAMA
इहरा य किसीएवि हु पावेइ अदिट्ठमेव तं पत्थि ।
तस्स परिणामरूवं सुहदुक्खफलं जतो भुजो ॥ १४० ॥ _ 'इतरथा'(च) दृष्टफलव्यतिरेकेणादृष्टफलेन दानादिक्रियायाः फलवत्त्वसाधने 'कृषेरपि कृषिक्रियाया अपि, हुशब्दोऽपि शब्दाथै, उक्तं च-"हु अविसद्दत्थम्मि वत्ति" स च भिन्नक्रमोऽदृष्टशब्दानन्तरं द्रष्टव्यः, एवकारस्तु प्राप्नोतिक्रियया अभिसंबध्यते, ततश्च कृषेरपि क्रियाया अदृष्टमपि फलं प्राप्नोत्येव, विशेषाभावात् , तथा च सति लोकवाधा, न ह्यदृष्टफलार्था लोके कृषिः प्रसिद्धा, किंतु दृष्टफलैवेति । अत्र प्रतिविधानमाह-तंपीत्यादि' तदपि-अदृष्टमपि कृषिक्रियायाः फलमस्ति, न केवलं दृष्टमित्यपिशब्दार्थः। तस्य कृषिक्रियाकर्तुः 'परिणामरूपमम्' अध्यवसायानुरूपं, 'यतो' यस्माद् दृष्टात् 'भूयः' पुनरपि भवान्तरे सुखदुःखलक्षणं फलं 'तस्य' कृषिक्रियाकर्तुर्भवति ॥ १४०॥
तदभावम्मि य मुत्ती पावइ णियमेण सबसत्ताणं ।
एवं च भवसमुद्दो ण घडइ पञ्चक्खदिट्ठोवि ॥ १४१ ॥ यदि पुनः कृष्यादिक्रिया अदृष्टसंज्ञकपुण्यापुण्यलक्षणफलनिबन्धनं नेष्यते तर्हि तस्य अदृष्टस्याभाव एव स्थात्,
Jain Education in
For Private & Personel Use Only
kww.jainelibrary.org