SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥ ७५॥ AACACASSACROSAL अस्ति दानादिक्रियाणा फलमिति साध्यं, क्रियाया अवश्यं फलभावादिति हेतुः, कृषिक्रियाया इवेति दृष्टान्तः। प्रयोगश्चैवम्-या चेतनावतः परिस्पन्दात्मिका क्रिया सा नियमेन फलवती, यथा कृषिक्रिया, तथा च चेतनावतः परिस्पन्दात्मिका दानादिक्रियेति । अत्र चेतनावत्त्वविशेषणेन परमाण्वादिक्रियाव्युदासः, परिस्पन्दग्रहणेन च मुक्तात्मनां या प्रतिक्षणं सकलपदार्थपरिच्छेदरूपा क्रिया तस्याः प्रतिक्षेपः, अन्यथैताभ्या व्यभिचारः स्यादनयो रभिप्रेतफलेन फलवत्त्वाभावात् । अत्र हेतोरभिप्रेतादृष्टफललक्षणेन साध्येन सह प्रतिबन्धं सिसाधयिपुराचार्यस्ता६ वत्परस्य सिद्धसाधनमाशङ्कते-'तं दिट्टमित्यादि,' अथ स्यादियं मतिः परस्य-इष्यत एव दानादिक्रियायाः फलं, परं तत्फलं दृष्टमेव वशःकीर्तिलाभादिकं द्रष्टव्यं, न त्वदृष्टं पुण्यादि, तत्र पराक्रमकृतः श्लोको यशः, दानपुण्यकृतस्तु कीर्तिः, उक्तं च-“दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः” इति, लाभो धनाद्यवाप्तिः, अवसरे हि पुरुषविशेषाय दीयमानमल्पमपि विपुलधनादिलाभनिमित्तं भवतीति, आदिशब्दादपायरक्षादिपरिग्रहः । ततश्च सिद्धसाधनमेवेदमिति ॥१३९॥ अथ मन्यसे यशःकीर्तिलाभादिके दृष्टे फलेन विवादोऽस्ति, यद्विषया च विप्रतिपत्तिस्तदेव साध्यं नेतरत् , यथा परार्थाश्चक्षुरादय इत्यत्र पर आत्मा, अदृष्टफलविषया चावयोविपत्तिपत्तिरतस्तदेव साध्यं, तथा च कुतः सिद्धसाधनमित्याशङ्कय पर आह ॥ ७५॥ Jain Education Intem For Private & Personel Use Only XBw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy