________________
Jain Education Inte
यसो दिट्ठोत्ति' न च 'स' प्रतिषेधः प्रतिषेधकत्वलक्षणो व्यापारः 'कायमात्रे' केवल एव काये दृष्टो, मृतकाये तथादर्शनाभावात्, ततः पारिशेष्यादात्मैव प्रतिषेधक इति युक्तमुक्तं - 'यः प्रतिषेधति स एव जीवः' इति ॥ १३७ ॥ इदानीं 'दाणाइफलाभावा सो नत्थित्ति' यत् आशङ्कय दूषितं, तत् बुभूषयिषुरिदमाह -
एतो चि णाभावो दाणादिफलस्स मणप्पसादादी | इलोम्मिविदिट्ठा परलोगे किं न जुत्तत्ति ? ॥ १३८ ॥
'अत एव ' परलोकयायिनो जीवस्य सिद्धेरेव न दानादिक्रियाफलस्याभावः, एतदुक्तं भवति परेण हि 'न संगयमिदं पीत्यादि ' प्रतिपादयता दानादिक्रियाफलस्याभाव आपादितः, स इदानीमात्मनि परलोकयायिनि सिद्धे नैव युक्तः । कुत इत्याह- यस्मान्मनः प्रसादादय इहलोकेऽपि दानादिक्रियाफलत्वेन दृष्टाः, ततः परलोके 'किं' कस्मादानादिक्रियायाः फलं न युक्तं ?, युक्तमेवेति भावः, तत्साधकप्रमाणसंभवात् । इतिशब्दो वाक्यपरिसमाप्तौ ॥१३८॥ तत्साधकमेव प्रमाणमुपदर्शयति
किरियाफलभावातो दाणादीणं फलं किसी एव । तं दिट्टं चैव मती जसकित्तीलाभमादीयं ॥ १३९ ॥
For Private & Personal Use Only
%% %
150w.jainelibrary.org