________________
विद्यते नवेत्येवं पदार्थान्तरसाधारण्यमाशङ्कितम्, अतस्तस्यादिभिः साधारण्यव्यवच्छित्तये वाक्यमिदमुच्चार्यतेधर्मः खलु पुरुषार्थो, नार्थकामाविति । यथा चापुरुषार्थता अर्थकामयोस्तथा धर्मसारटीकायामभिहितमिति नेह प्रतायते । अथ किंखरूपः स धर्मो योऽत्यन्तासाधारणः पुरुषार्थ इत्यतस्तत्खरूपमुपदिशति-'सपरुवयारो य सो मुणेयघोत्ति' खपरयोरुपकारखरूपश्च 'स' धर्मो ज्ञातव्यः। स चोपकारो नामादिभेदाचतुर्दा । तत्रातीव सुज्ञातत्वान्नामस्थापने अनादृत्य द्रव्यभावभेदेनोपकारस्य द्वैविध्यमुपदर्शयन्नाह-'उवयारेत्यादि' उपकारोऽपि च द्विविधो 'द्रव्ये' द्रव्यविषयो 'भावे च' भावविषयश्च ज्ञातव्यः, द्रव्यभावखभावभेदेन द्विविध उपकारो ज्ञातव्य इतियावत् ॥४॥ तत्र-'यथोद्देशं निर्देश' इति न्यायात् द्रव्योपकारं तावदाह
दवम्मि अन्नपाणादिदाणरूवो तु होइ विन्नेओ। नेगंतिओ अणचंतिओ य जं दवतो तेणं ॥५॥
'द्रव्ये' द्रव्यविषय उपकारोऽन्नपानादिदानरूपो विज्ञेयः । तुः पूरणार्थः । यथा चास्य द्रव्यरूपता तथा भावयति'नेगतिये 'त्यादि, 'यत्' यस्मानेवासावुपकार ऐकान्तिकः, कदाचिदतोऽपकारसंभवात् । नाप्यात्यन्तिकः, पुनरुपका
Jain EBधर्म
For Private & Personel Use Only
www.jainelibrary.org