________________
संग्रहणिः .
उवगारोऽविय दुविहो दवे भावे य नायवो ॥ ४ ॥ खलुशब्द एवकारार्थः, स चैवकारो विशेषणविशेष्यक्रियाभिस्सहोचार्यमाणो यथाक्रमं धनुर्द्धरत्वादेर्द्धर्मस्य अयो-2 गमपर्योगमत्यन्तासंभवं च व्यवच्छिनत्ति, यथा चैत्रो धनुर्धर एव, पार्थ एव धनुर्द्धरो, नीलं सरोजं भवत्येवेति ॥ इहापिच खलुशब्द एवकारार्थो विशेष्येण सहोच्चार्यते, ततः पुरुषार्थत्वस्यापरैरादिभिस्सह संबन्धं व्यवच्छिनति, धर्मः खलु पुरुषार्थो, न त्वर्थकामौ इति । तथाहि- इह परप्रतिपत्तये वाक्यमुच्चार्यते, ततो यदेव परेण । व्यामोहादाशङ्कितं, तदेव व्यवच्छेत्तव्यम् । चैत्रस्तु धनुर्धरो लोके न प्रतीतस्ततश्चैत्रस्याधनुर्धरत्वाशङ्काव्यवच्छेदनाय । धनुर्द्धरत्वविधानाय च वाक्यमुच्चार्यते-चैत्रो धनुर्द्धर एवेति । पार्थस्तु धनुर्द्धरो लोके प्रतीत इति तस्मिन्नाधनुर्द्धरत्वाशङ्का कस्यचिद्विद्यते, ततो यदतिशयवत्तस्य धनुर्द्धरत्वं तकिमन्यत्रापि पुरुषान्तरेऽस्ति नवेत्येवं पुरुषान्तरसाधारणमाशङ्कितमिति पुरुषान्तरेण सह तस्य साधारण्यव्यवच्छेदाय वाक्यमिदमुच्यते-पार्थ एव धनुर्धर इति । यदा तु सरोज नीलवर्णविविक्तं कस्यचित्रसिद्धं, नीलत्वं पुनरस्य किमस्ति नास्तीति शङ्कितं भवति, तदा तदत्यन्तासंभवाशङ्काव्यवच्छित्तये वाक्यमेतत्रयुज्यते-नीलं सरोजं भवत्येवेति । तथेहापि धर्मः पुरुषार्थों लोके प्रतीत एवेति तस्मिन्नापुरुषार्थत्वाशङ्का कस्यचिद्विद्यते, यत्पुनरेकान्तिकात्यन्तिकरूपं पुरुषार्थत्वं तत् किमन्यत्रापि अर्थादौ
Jain Education
For Private & Personel Use Only
www.jainelibrary.org