________________
SCALCCCCCCCCCESSAR
त्वेन व्याप्तेः, निष्फलाभिधेयेन च पुरुषार्थानुपयोगितया कस्यचिदपि प्रेक्षावतोऽर्थित्वाभावात् , अतः प्रकरणारम्भ सफलं दिदर्शयिषुराचार्योऽनया गाथयाऽभिधेयप्रयोजनमेवाभिधत्ते, तस्मिंश्चाभिहिते सति सामर्थ्यादभिधेयं प्रयोजनं संबन्धश्चोक्तो भवति । वाक्यावयवभेदकल्पनया च केवलं पृथगुपदर्शयिष्यन्ते । नत्वेकं वाक्यमनेकमर्थं खतत्रमुपादातुं समर्थम् । तत्राभिधेयप्रयोजनम्-यतो धर्मेऽभिधीयमाने स्वपरयोरुपकारो भवति, ततो धर्मसङ्ग्रहणिरारभ्यते । अनेन चाभिधेयस्य निष्फलत्वाशङ्काव्युदासः। एवं चोक्ते सति सामर्थ्याद्धर्मशब्देन धर्मोऽभिधेय उक्तः। तथा च सत्यशक्यानुष्ठानत्वाशङ्कानिरासः, अनुक्तादपि च सामर्थ्यब्धाद्धर्मखरूपावगमलक्षणात् श्रोतुरनन्तरप्रयोजनात् अनभिमतश्रवणप्रयोजनाशङ्कापनोदः।धर्मप्रतिपादिका संग्रहणिरारभ्यते, इत्यनेन च समासार्थेन प्रकरणाभिधेययोरुपायोपेयलक्षणः संबन्ध उक्तो द्रष्टव्यः, तेनान्योपायत्वाशङ्काव्युदासः, यदि ह्यतोऽपि लघुरुपायः स्यात् || नवेयमारभ्यतेति । नचातीन्द्रियं वस्तु खमनीषिकयाऽभिधीयमानं प्रेक्षावतामुपादेयं भवतीति धर्माभिधानस्यातीन्द्रियार्थदर्शिवचननिवन्धनतां दर्शयन् क्रियानन्तर्यलक्षणं सम्बन्धान्तरमुपदर्शितवान्-'जिणवयणं गुरुवएसओणाउं वोच्छामि त्ति' जिनवचनगताद्विस्तरतो धर्माभिधानादिदं संक्षेपतो धर्माभिधानमनन्तरं भवतीति ॥३॥ साम्प्रतं यथेदं प्रकरणमवश्यमारम्भणीयं भवति यथा च प्रेक्षावतामिदमवश्यमुपादेयं तथोपपादयितुमुपक्रमते
धम्मो खल पुरुसत्थो सपरुवयारो य सो मुणेयवो।
Jain Education inte
For Private & Personel Use Only
Miwww.jainelibrary.org