SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि, HLORORSCIEAAAAACACAMARS शब्दार्थः, स संगृह्यतेऽनयेति धर्मसंग्रहणिः-धर्मखतत्त्वाभिधायी प्रकरणविशेष इतियावत् तां, वक्ष्यामि एतक्रियापदापेक्षश्च नत्वेति पूर्वकालक्रियानिर्देशः, अस्माच क्रमभाविक्रियाद्वयककर्षभिधानादेकान्ताविकारिपक्षः क्षणिकपक्षश्च निरस्तो द्रष्टव्यः, तत्रैवंविधव्यवहारासम्भवात् , एतचोत्तरत्र खयमेव प्रपञ्चयिष्यति । तामेव धर्मसंग्रहणि विशेषयति-पयडत्थं' प्रकटार्थी प्रकटः-स्थूरयुक्त्याऽभिधीयमानत्वात् अर्थोऽभिधेयं यस्यास्ताम् । कथं पुनर्वक्ष्यामीत्यत आह–'समासेन' संक्षेपेण । अनेन चैतदाह-यद्यपि पूर्वाचार्यैरतिगम्भीरमतिविस्तरेण धर्मख-3 तत्त्वमावेदितं, तथापि दुष्षमानुभावेनापचीयमानमेधायुरादिगुणानामैदंयुगीनजन्तूनां नोपकाराय तद् जायत इति तान् प्रति संक्षेपेण धर्मसङ्ग्रहणिरेषा प्रारभ्यते। किमर्थमित्याह-'सपरुवयारठाए' स्वपरोपकाराय । तत्र परेषाम्आत्मव्यतिरिक्तानामुपकारो-मिथ्यात्वादिदोषापनयनेन सम्यक्त्वाद्यनुत्तरगुणाध्यारोपणं, खस्य त्वशुभकर्मनिर्जरादिः । इह च यद्यपि परोपकारे सत्यवश्यमात्मनोऽपि कृपाविशेषयोगतो यथोदित उपकारो भवति, अनुग्रहबुद्ध्या : प्रवृत्तेः, तथापि यदा क्लिष्टकर्मोदयवशेन यथावस्थितवस्तुतत्त्वानवगत्या परेषामुपकारामावस्तदाप्यात्मनोऽनुग्रहबुद्ध्या प्रवृत्तस्य सतोऽवश्यमुपकारो भवतीति मन्यमानः खशब्दोपादानमकार्षीदिति । इयं च गाथा साक्षाकरणस्याभि|धेयप्रयोजनमेव वक्तुं प्रवृत्ता, द्विविधं हि प्रकरणशरीरं-शब्दोऽर्थश्च । तत्र शब्दोऽर्थप्रतिपादनफलत्वात् क्वचिदपि खतो न निष्फलारम्भः, अर्थस्तु क्वचिनिष्प्रयोजनोऽपि दृष्टः, तादृशं च नारम्भणीयं, प्रेक्षावतां सर्वस्याप्यारम्भस्यार्थि in Education Intematona For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy