________________
CCESCREENSH
सपरुवगारट्टाए जिणवयणं गुरुवदेसतो णाउं।
वोच्छामि समासेणं पयडत्थं धम्मसंगहणिं ॥३॥ असति हि प्रयोजनाधभिधाने प्रेक्षावतामेवमाशङ्का प्रवर्त्तत-निष्फलमस्याभिधेयं, काकदन्तपरीक्षावत् , अशक्यानुष्टानं वा, सत्यपि फले सर्वव्याधिहरानन्तचूडारत्नधारणोपदेशवत् , अनभिमतं वा श्रवणप्रयोजनं, मातृविवाहोपदेदशवत्, अतो वा प्रकरणालघुरन्यस्तस्य प्रयोजनस्य प्राप्त्युपायो भविष्यतीति । न चासामन्यतमयाऽप्याशङ्कया प्रेक्षा-16
वान् प्रवर्त्तत, तद्वत्ताहानिप्रसङ्गात् , अतस्तन्निवृत्त्यर्थमेष प्रयोजनाडुपन्यास इति । नन्वयं प्रयोजनाडुपन्यासो|ऽनर्थकः, अतः सम्यक प्रयोजनाद्यनवगतः, सकलप्रकरणार्थपरिज्ञानपुरस्सरा हि प्रयोजनाद्यवगतिः, सा कथमतो भवितुमर्हतीति, न, अस्मादेव प्रयोजनाद्युपन्यासात्सामान्येन सम्यक् प्रयोजनाद्यवगतेः, तथा लोके व्यवहारदर्शनात् । सामान्येन तदवगतावेव च तद्विशेषपरिज्ञानार्थ प्रकरणे प्रेक्षावतां प्रवृत्तिर्नान्यथेति, तप्रवृत्त्यर्थत्वान्नासावपार्थक इति स्थितम् ॥ तत्र व्याख्या-रागादिशत्रुजेतृत्वाजिनः तस्य वचनम्-आचाराद्यनेकविधम् , अर्थतस्तेन प्रणी-2
तत्वात् , तत् ज्ञात्वा-अवबुध्य । कुत इत्याह-गुरूपदेशात् , गृणाति यथावस्थितमर्थमिति गुरुस्तस्योपदेशः-पूर्वापरसूदत्रावयवानावाधयाऽभिधेययाथात्म्यनिर्देशः तस्मात् । ततः किमित्याह-वक्ष्यामि धर्मसङ्ग्रहणिं, धर्मो-वक्ष्यमाण
ORORSCOREAK
Jain Education Inter
For Private & Personel Use Only
diww.jainelibrary.org