SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ संग्रहणि. ॥४॥ दिवात्सल्यप्रभृतिलक्षणेन शुभेन भावेन-अध्यवसायेन यत् अर्जितं तीर्थकरनामकर्म तस्य यः शुभो विपाक-उदयदानाभिमुख्यं तस्मादनुपकृतपरहितरतम्। एतदुक्तं भवति-अर्हद्वात्सल्यादिनिमित्ततीर्थकरनामकर्मोदयसामर्थ्यात्तत्वभावतया सवितेव प्रकाशमुपकार्यकृतोपकारानपेक्षः शास्त्रार्थमातनोति, ततो न यथोक्तदोषप्रसङ्ग इति । ननु यो वीतरागत्वादिगुणकलापोपेतः सोऽवश्यं तीर्थकर एवेति नार्थोऽनेन विशेषणेन, न, गणभृतां समुत्पन्नकेवलज्योतिषां सकलस्यापि विशेषणकलापस्य घटनात्, अतस्तद्यवच्छेदार्थ तीर्थकरग्रहणम् । यद्येवं ततस्तीर्थकरमित्येतावदेवोच्यतामलं वीतरागादिग्रहणेन, उच्यते-इह सरिदादीनां विषमस्थानेषु ये सुखावताराय तीर्थकरणशीलास्तेऽपि लोके तीर्थकरा उच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेष्वपि संप्रत्यय इति तदपनोदाय वीतरागादिग्रहणम् । कं पुनरेवंभूतं नत्वेत्यतो विशेष्यमाह-महावीरमिति, 'ईर गतिप्रेरणयों रित्यस्य विपूर्वस्य विशेषेण ईरयति-प्रेरयति विनाशयति कर्म याति च शिवमिति वीरः, महांश्वासौ वीरश्च महावीरस्तं नत्वा । ननु यो महावीरः स वीतरागत्वादिगुणक लापोपेत एवेत्यपार्थकं वीतरागाधुपादानम्, न, नाममहावीरादिभेदव्युदासकारितया अस्य सफलत्वात् । एवं| हयादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन यथाशक्ति विशेषणसाफल्यं वाच्यमित्यलं प्रसङ्गेन ॥१-२॥ एवमिष्टंदेवतास्तवाभिधानेन निरस्ताशेषविघ्नविनायकः प्रेक्षावतां प्रवृत्त्यर्थ प्रयोजनादि प्रतिपिपादयिषुरिदमाह १ धर्मस्यात्राधिकृतत्वात्तस्य प्रकृष्टस्य च तीर्थकर एव सत्त्वाद्धर्मधर्मिणोश्चाभेदादत्र तीर्थकर एवाधिकृतदेवता इष्टदेवता तस्यै कृतैव नतिरत्र दागाथायुग्मेन। तं नत्वेत्यतो विश ALSSESASSASSSS वीरः, महांश्चाता नाममहावीरादिनाच्यमित्यलं प्र ॥ ४ ॥ Jain Education Inter For Private & Personel Use Only W ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy