SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ SEASSADORICALCULOSROCKS तत्र जन्मजरामरणसलिलसङ्कलं मिथ्यादर्शनाविरतिगम्भीरं रागद्वेषपवनविक्षोभितं नानाविधानिष्टेष्टसंयोगवियोगवीचीनिचयोपेतं दुरवगाहमोहाव-भीषणं विविधशारीरमानसानेकदुःखौघपुष्टश्वापदं महाभीमकपायपातालं प्रबलमनोरथवेलाकुलं सुदीर्घसंसारसागरं तरन्यनेनेति तीर्थम् , एतच सकलजीवाजीवादिपदार्थसार्थप्ररूपकं त्रिलोकीगतावदातधर्मसम्पद्युक्तमहासत्त्वाश्रयम् अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाधारम् अचिन्त्यशक्तिसमन्वितम् अविसंवादिप्रवचनम् , तदाधारश्च सङ्घः, निराधारस्य प्रवचनस्याभावात् , तत्करणशीलस्तीर्थकरः, "हेतुतच्छीलानुलोमेष्वशब्देत्यादिना"टः, तं नत्वा । कस्य पुनस्तीर्थस्य भगवान्कत्यत आह-'इमस्स तित्थस्स' अस्य ऐदंयुगीनजनानां साक्षादुपकारितया प्रत्यक्षीभूतस्य तीर्थस्य पूर्वव्यावर्णितशब्दार्थस्य । ननु प्रेक्षावतां प्रवृत्तिः फलवत्तया व्याप्ता, अन्यथा प्रेक्षावत्ताक्षतिप्रसङ्गात्, फलं चेदसौ तीर्थकरणादपेक्षते व्यक्तमवीतरागत्वप्रसङ्ग इत्यारेकानिराकरणार्थमिदमाचष्टे-"अणुवगियपरहियरयं" अनुपकृतपरहितरतम् , योऽनुपकृत एव सन् परस्मै यत् हितं तस्मिन् कर्त्तव्यतया रत-आसक्तः सकलतियरामरगणसाधारण्या वाण्या तदुपायप्रदर्शनेन सोऽनुपकृतपरहितरतस्तम् । नत्वेति योगः । अनुपकृतत्वाविशेषाच सर्वेष्वपि जन्तुष्वविशेषेण परहितकरणे भगवतः प्रवृत्तिरिति न पूर्वोक्तदोषावकाशः । ननु च यद्यसावुपकायरनुपकृतः खयं चाशेषरागादिदोषविप्रमोषोपेतस्ततः कथं परहितसम्पादनार्थमेष प्रवर्तते ?, प्रयोजनाभावादित्याशङ्काशेषमपाचिकीर्षुरिदमाह-सुहभावजियतित्थयरनामकम्मस्स सुहविवागाउत्ति' अहंदा NCR Jain Education Intel For Private & Personel Use Only |www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy